________________
१३६ ]
पृथ्वीधराचार्यपद्धतो. . . यो वर्णः स भवेद् ब्रह्मा यो गन्धः स जनार्दनः स्वादौ च संस्थितः सोमः शब्दे देवो हुनाशनः । इच्छायां मन्मथो देवो लीलायां किल भैरवः॥ फेने गङ्गा स्थितां देवो बोधस्थाः सप्तसागराः। इच्छाशक्तिः सुधामोदे ज्ञानशक्तिस्तु तसे ॥ तत्स्वादौ च क्रियाशक्तिः तदुल्लासे परा स्थितिः॥ सुधादर्शनमात्रेण सर्वपापैः प्रमुच्यते ।। तद्गन्धध्राणमात्रेण शतक्रतुफलं लभेत् । सुधास्पर्शनमात्रेण तीर्थ कोटिफलं लभेत् ॥
सुधास्वादनमात्रेण लभेन्मुक्तिं चतुर्विधाम् । इति सुधां ध्यात्वा सुधागायत्री जपेत्'ऐं सुधादेवि विद्महे ही समुद्रोद्भवे धीमहि श्री तन्नो रक्ताक्षी प्रचोदयात्'
इति सुधागायत्री कलंशोपरि सप्तधा जपित्वा ततः कलशामृतं. पात्रान्तरेणाच्छाद्य उद्धरणपात्रमादाय ॐ अमोघायै नमः, ॐ सूक्ष्माय नमः, ॐ आनन्दायै नमः, ॐ शान्त्यै नम इति तस्मिन् पात्रे शक्तिचतुष्टयं संपूज्य कुम्भस्याच्छादन-: पात्रस्योपरि संस्थाप्य आवाहनादिमुद्राः प्रदर्शयेत् । आवाहनि १ स्थापनि २ सन्नि- ... रोधिनि ३ अवगुण्ठिनि ४ सुप्रसारिणि ५ सम्मुखीकरिणि ६ संकलरिणि ७ अमृतीकरणि ८ चक्र ६ योनि १० एताः दशमुद्राः दशयेत् । कलशं गन्धादिनैवेद्यान्तमुपचारैः पूजयेत् । इति कलशस्थापनम् । ___ अथ शङ्खस्थापनम् । ततः कलशदक्षिणभागे शुद्धोदकेन वइन्नासाकरोर्ध्वपुटाभ्यां मछ (त्स्य ) मुद्रया त्रिकोणवृत्तं चतुरस्रं मण्डलं विरच्य शङ्खमुद्रया दक्षकरणा-.. वष्टभ्य वामेन पुष्पाक्षतः मूलेन व्यस्ताव्यस्तक्रमेण संपूज्य, मध्ये अस्वप्रतालिवमाधार मूलेन संस्थाप्य र अग्निमण्डलाय नमः, इति संपूज्य, मूलेन शङ्ख संस्थाप्य हं सूर्यमण्डलाय नमः, इति संपूज्य, मूलविद्यया शुद्धोदकैः पूरयित्वा, सं सोममण्डलाय नमः, इति संपूज्य, गन्धादिकं कलशविन्दु निक्षिप्य, ॐ हसौ वरुणाय स्हों वरुणादेव्यै नमः, इति सप्तवारमभिमन्त्र्य, 'गङ्ग च यमुने चैव० इमं में गंगे' . इत्यभिमन्त्र्य । ध्यानम्