________________
भुवनेश्वरीक्रमचन्द्रिका
[ १३७ पाञ्चजन्य महानादध्वस्तनिःशेषदानवान् । (१:)
महाविष्णुकरांग्रान्तं पयमानीय [पय आनीय ] सर्वदा ॥
इति शङ्खध्यानम् । शङ्खस्थमुदकं दक्षकरतले गृहीत्वा वामकरणाच्छाद्य मूल... मन्त्रेण त्रिवारमभिमन्व्य आत्मानं शिरसि त्रिवारं नववारं वा प्रोक्ष्य पूजोपकरणानि
प्रोक्ष्य शङ्खमुद्रां प्रदर्शयेत् । इति सामान्याय॑स्थापनम् ॥ अथ विशेषार्घ्यपात्रस्थापनम् । तत्पुरतो वहच्छ्वासोर्ध्वकराभ्यां शङ्खोदकेन अन्तर्मायाङ्कितं भूविम्ववृत्तपट्कोणत्रिकोणात्मकं मण्डलं विरच्य अपसव्याङ्गुष्ठेनावष्टभ्य वामेन व्यस्ताव्यस्तक्रमेण मूलविद्यया त्रिकोणमध्यं च संपूज्य षट्कोणे ऐं ह्रीं श्रीं हृदयदेवि श्रीपादुकां पूजयामि नमः । ३ शिरोदेवि श्री० । ३ शिखादेवि श्री० । ३ कवचदेवि श्री० । ३ नेत्रदेवि श्री० । ३ अस्त्रदेवि श्री० । चतुरस्र , ३ क्षां क्षीरसागराय नमः, ३ ई इक्षुसागराय०, ३ मं मधुसागराय०, ३ पं पीयूपसागराय०, इत्याग्न्येयादीन् संपूज्य, त्रिकोणे ३ कामरूपपीटाय नमः, ३ जालंधरपीठाय नमः, ३ पूर्वगिरिपीठाय नमः, मध्ये ३ उड्यानपीठाय नम इति पीठचतुष्टयं संपूज्य मूलेन प्रक्षालितमाधारं 'श्रीभुवनेश्वरीविशेषार्घ्यपात्राधारं स्थापयामि नमः' इति संस्थाप्य, रां री रूं रं म ल व र य उं रं धर्मप्रददशकलात्मने अग्निमण्डलाय विशेषार्घ्यपात्राधाराय नम इति संपूज्य तदुपरि प्रादक्षिण्येन कलाः पूजयेत् । ३ यं धूम्रार्चिः कला श्री०, ३ रं ऊष्माकला श्री०, ३ लं ज्वलिनिकला श्री०, ३ वं ज्वालिनिकला श्री०, ३ शं विस्फुलिङ्गिनीकला श्री०, ३ पं सुश्रीकला श्री०, ३ सं सुरूपाकला श्री०, ३ हं कपिलाकला श्री०, ३ ळं हव्यवहाकला श्री०, ३ दं कव्यवहाकला श्री०, इति गन्धादिना संपूज्य तदुपरि सौवर्ण राजतं ताम्र विश्वामित्रमयं मूलेन प्रक्षालितं सुधूपितं श्रीभुवनेश्वरीविशेषार्घ्यपात्रं स्थापयामि नम इति संस्थाप्य । हां ही हूं ह म ल व र य ऊं सं वसुप्रदद्वादशकलात्मने सूर्यमण्डलाय- विशेषार्घ्यपात्राय नम इति सम्पूज्य तदुपरि प्रादक्षिण्येन सूर्यद्वादशकलाः पूजयेत् । ३ कं भं तपिनिकला श्री०, ३ खं वं तापिनिकला श्री०, ३ गं फं धूम्राकला श्री०, ३ घं पं मरीचिकला श्री०, ३ डं नं ज्वालिनिकला श्री०, ३ चं धं रुचिकला श्री०, ३ छं दं सुषुम्णा कला श्री०,
३ थं भोगदाकला श्री०, ३ झं तं विश्वाकला श्री०, ३ बणं बोधिनीकला श्री०, .. ३ टंढं धारिणीकला श्री०, ३ ठं डं क्षमाकला श्री०, इति सम्पूज्य । ततः मूल
.. विद्यया विलोममातृकया कलशस्थजलं उद्धरणपात्रेणोद्धृत्य वामहस्तद्वितीयाखएडस्पृष्ट.. ...: १८ . .