________________
भुवनेश्वरीक्रमचन्द्रिका . [ १२५ वासान्ते बालमध्ये ड फ क उ सहिते कण्ठदेशे स्वराणां ":. हं हं तत्यार्थयुक्तं सकलदलगतं वर्णरूपं नमामि ॥ इति षट्चक्रध्यानम् । इत्यन्तर्मातृकान्यासः ।
अथ भुवनेश्वरीसम्पुटितबहिर्मातृकान्यासः । अस्य श्रीभुवनेश्वरीसम्पुटितबहिर्मातुकामन्त्रस्य ब्रह्मा ऋषिः शिरसि गायत्री छन्दो मुखे वहिर्मातृका सरस्वती देवता हृदये हलो बीजानि गुह्ये स्वराः शक्तयः पादयोः क्षः कीलकंनाभौ बहिर्मातृकान्यासे विनियोगः। .. अथ षडङ्गः। ॐ हं अं कं ५ श्रां हां हृदयाय नमः अङगुष्ठयोः। ॐ हिं इं चं. ५ ई ह्रीं शिरसे स्वाहा तर्जन्योः। ॐ हृउंटं ५ ऊंह शिखायै वषट मध्यमयोः । ॐ ह्र एं तं ५ ऐं हैं कवचाय हुं अनामिकयोः। ॐ हो ओं पं ५ औं ह्रौं नेत्रत्रयाय वौषट् कनिष्ठिकयोः । ॐ हं अं यं १० अः हः अस्त्राय फट् करतलकरपृष्ठयोः । इति षडङ्गः । ध्यानम्- ।
पञ्चाशद्वर्णभेदैविहितवदनदोःपादयुक्कुक्षिवक्षो- . देशां भास्वत्कपर्दाकलितशशिकलामिन्दुकुन्दावदाताम् । अक्षस्रक्कुम्भचिन्तालिखितवरकरां यक्षरां पद्मसंस्थामच्छाकल्पावतुच्छस्तनजघनभरां भारती तां नमामि ।
पुस्तकज्ञानमुद्राङ्कां त्रिनेत्रां चन्द्रशेखराम् । ... आधाराद् ब्रह्मरन्ध्रान्तां बिसतन्तुतनीयसीम् ॥
तां देवीं चिन्तयेदन्तः पापत्रयविनाशिनीम् । मन्त्रवित्तन्मयो भूत्वा भावमन्यं न भावयेत् ॥ ब्रह्मकेशवरुद्राद्यैर्लभते दुर्लभं पदम् । पादादिक्रोधपर्यन्तं वर्णचक्रं सुसंयुतम् ॥
निष्कलङ्क सुधाकान्तिकमनीयं न्यसेत्तनौ । तत्र न्यासे कारिका- ...
आद्यो मौलिरथापरो मुखमिई नेत्रे च कर्णावुऊ नासावंशपुटे ऋऋ तदनुजौ वर्णी कपोलद्वयम् ।
दन्ताश्चोर्ध्वमधस्तथोष्ठयुगलं सन्ध्यक्षराणि क्रमात् .: जिह्वामूलमुदग्रविन्दुरपि च नीवा विसर्गी स्वरः ।।
आदी
.....