________________
... भुवनेश्वरीक्रमचन्द्रिका
[ १२३ दक्षहस्तमणिबन्धे । ॐघ नमो दक्षहस्ताङ्गुलिमूले । ॐ ङ नमो दक्षहस्ताङ्गुल्यग्रे। ॐ च नमो वामहस्तमूले । ॐ छ नमो वामहस्तकूपरे । ॐ ज नमो वामहस्तमणिवन्धे । ॐ झ नमो वामहस्ताङ्ग लिमूले । ॐ न नमो वामहस्ताङगुल्यग्रे । ॐ ट नमो दक्षपादमूले । ॐ नमो दक्षपादजानुनि । ॐ ड नमो दक्षपादगुल्फे । ॐ ढ नमो दक्षपादाङ्गुलिमूले । ॐ ण नमो दक्षपादाङ्गुल्यो । ॐ त नमो वामपादमूले । ॐथ नमो वामपादजानुनि । ॐ द नमो वामपादगुल्फे । ॐ ध नमो वामपादाङ्गुलिमूले । ॐ न नमो वामपादाङ्गुल्यग्रे । ॐ प नमो दक्षपार्चे । ॐ फ नमो वामपार्चे । ॐ व नमः पृष्ठे । ॐ भ नमो नाभौ । ॐ म नमो जठरे । ॐ य नमो हदि । ॐ र नमो दक्षस्कन्धे । ॐ ल नमो वामस्कन्धे । ॐ व नमः कण्ठे । ॐ श नमो दक्षकक्षे । ॐ प नमो वामकक्षे । ॐ स नमो हृदादिपाणियुगे । ॐ ह
नमो हृदादिपादयुगे ॐ ळ नमो जठरादि अानने । व्यापकम् । ॐक्ष नमो मस्त- कादिपादान्तं । व्यापकम् । पुनस्तत्रैव ॐ अं नमः शिरसि । ॐ आं नमो मुखवृत्ते ... इत्यादि क्रमेण बिन्दुमातृकां न्यसेत् । पुनस्तत्रैव ॐ अः नमः शिरसि । ॐ आः नमो मुखवृत्ते इत्यादि क्रमेण विसर्गमातृकामङ्गुष्ठानामिकायोगेन न्यसेत् । अथ ध्यानम्
अर्कोन्मुक्तशशाङ्ककोटिसदृशीमापीनतुगस्तनी चन्द्रार्धाहितमस्तकां मधुमदामालोलनेत्रत्रयाम् । विभ्राणामनिशं वरं जपवटीं शूलं कपालं करे
राद्यां यौवनगर्वितां लिपितनुं वागीश्वरीमाश्रये ॥ इति ध्यानम् । इति शुद्धविन्दुविसर्गमातृकाश्चेति त्रिविधो मातृकान्यासक्रमः । -, अथ अन्तर्मातृकान्यासक्रमः । अस्य श्रीअन्तर्मातृकान्यासस्य ब्रह्मा ऋषिः शिरसि । गायत्री छन्दो मुखे । अन्तर्मातृका सरस्वती देवता हृदि । हलो बीजानि ..गुह्ये । स्वराः शक्लयः पादयोः । क्षः कीलकं नाभौ । अन्तर्मानुकान्यासे विनियोगः । .अथ षडङ्गः । ॐ ह्रीं अं कं ५ अां हृदयाय नमः अङ्गुष्ठयोः । ॐ ह्रीं इं चं ५ ई शिरसे स्वाहा तर्जन्योः। ॐ ह्रीं उंटं ५. ॐ शिखायै वपट् मध्यमयोः । ॐ ह्रीं
एं तं ५ ऐं कवचाय हुं अनामिकयोः । ॐ ह्रीं ओं पं ५ औं नेत्रत्रयाय वौषट् ... कनिष्ठयोः ॐ ह्रीं अं यं ६ अः अस्त्राय फट करतलकरपृष्ठयोः । ध्यानम्.... बन्धूकाभां त्रिनेत्रां पृथुजघनलसच्छुक्तिमद्रक्तवस्त्रां
पीनोत्तुङ्गप्रवृद्धस्तनजघन भरां यौवनाभाररूढाम् ।