________________
श्रीभुवनेश्वरीहृदयस्तोत्रम् श्रीदेव्युवाच-भगवन ब्रूहि तत्स्तोत्रं सर्वकामप्रसाधनम् ।
यस्य श्रवणमात्रेण नान्यच्छ्रोतव्यमिष्यते ॥ १ ॥ यदि मेऽनुग्रहः कार्यः प्रीतिश्चापि ममोपरि।।
तदिदं कथय ब्रह्मन् विमलं यन्महीतले ॥ २॥ ..ईश्वर उवाच-शृणु देवि प्रवक्ष्यामि सर्वकामप्रसाधनम् ।
. हृदयं भुवनेश्वर्याः स्तोत्रमस्ति यशःप्रदम् ॥ ३॥ . ॐ अस्य श्रीभुवनेश्वरीहृदयस्तोत्रमंत्रस्य शक्तिर्ऋषिः, गायत्री छन्दः, भुवनेश्वरी देवता, हकारी बीजम्, ईकार शक्तिः, रेफः कीलकम्, सकलमनोवाञ्छितसिद्धयर्थे पाठे विनियोगः ॥ ॐ ह्रीं हृदयाय नमः १, ॐ श्रीं शिरसे स्वाहा २, ॐ ऐं शिखायै वषट् ३, ॐ ह्रीं कवचाय हुं ४, ॐ श्रीं नेत्रत्रयाय वौषट् ५, ॐ ऐं अस्त्राय फट् । इति हृद्यादिषडङ्गन्यासः।
ॐ हीं अंगुष्ठाभ्यां नमः १, ॐ श्रीं तर्जनीभ्यां नमः २, ॐ ऐं मध्यमाभ्यां .. नमः ३, ॐ ह्रीं अनामिकाभ्यां नमः ४, ॐ श्रीं कनिष्ठिकाभ्यां नमः ५, ॐ ऐं करतलकरपृष्ठाभ्यां नमः ६ । इति करन्यासः ।
अथ ध्यानम् ध्यायेद् ब्रह्मादिकानां कृतजनिजननीं योगिनी योगयोनि देवानां जीवनायोज्ज्वलितजयपरज्योतिरुयाङ्गधात्रीम् । शंखं चक्रं च वाणं धनुरपि दधतीं दोश्चतुष्काम्बुजातैर्मायामाद्यां विशिष्टां भवभवभुवनां भूभुवाभारभूमिम् ॥ ४ ॥ यदाज्ञयेदं गगनावशेष सृजत्यजः श्रीपतिरौरसं वा। बिभर्ति संहति भवस्तदन्ते भजामहे श्रीभुवनेश्वरी ताम् ॥ ५ ॥ जगज्जनानन्दकरी जयाख्यां यशस्विनी यंत्रसुयज्ञयोनिम् । जितामितामित्रकृतप्रपञ्चां भजामहे श्रीभुवनेश्वरी ताम् ॥ ६ ॥ हरौ प्रसुप्ते भुवनत्रयान्ते अवातरन्नाभिजपद्मजन्मा । विधिस्ततोऽन्धे विदधार यत्पदं भजामहे श्रीभुवनेश्वरी ताम् ॥ ७॥ न विद्यते क्वापि तु जन्म यस्या न वा स्थितिः सान्ततिकीह यस्याः। न वा निरोधेऽखिलकर्म यस्या भजामहे श्रीभुवनेश्वरी ताम् ॥ ८॥ कटाक्षमोक्षाचरणोगवित्ता निवेशितार्णा करुणार्द्रचित्ता । सुभक्तये एति समीप्सितं या भजामहे श्रीभुवनेश्वरी ताम् ॥६॥