________________
भुवनेश्वरीपञ्चाङ्गम् भद्रक्रीडा भद्रकला भद्रलीलाऽभिलाषिणी । भद्राङ्करा भद्ररता भद्राङ्गी भद्रमंत्रिणी ।। १७६ ॥ भद्रविद्याऽभद्रविद्या भद्रवाग्भद्रवादिनी । भूपमङ्गलदा सूपा भूलता भूमिवाहिनी ॥ १८० ।। भूपभोगा भूपशोभा भूपाशा भूपरूपदा । भूपाकृतिर्भूपरतिर्भूपश्रीभूपश्रेयसी ।। १८१ ॥ भूपनीति परीतिर्भूपभीतिर्भयङ्करी । . भवदानन्दलहरी भवदानन्दसुन्दरी ।। १८२ ॥ भवदानन्दकरणी भवदानन्दवर्द्धिनी । भवदानन्दरमणी भवदानन्ददायिनी ॥ १८३ ॥ भवदानन्दजननी भवदानन्दरूपिणी । य इदं पठते स्तोत्रं प्रत्यहं भक्तिसंयुतः ।। १८४ ॥ गुरुभक्तियुतो भूत्वा गुरुसेवापरायणः । जितेन्द्रियः सत्यवादी ताम्बूलपूरिताननः ॥ १८५ ॥ . दिवारात्रौ च सन्ध्यायां स भवेत्परमेश्वरः । स्तवमात्रस्य पाठेन राजा वश्यो भवेद् ध्रुवम् ॥ १८६ ॥ सर्वागमेषु विज्ञानी सर्वतन्त्रे स्वयं हरः। गुरोर्मुखात् समभ्यस्य स्थित्वा च गुरुसन्निधौ ॥ १८७ ।। शिवस्थानेषु सन्ध्यायां शून्यागारे चतुष्पथे । यः पठेच्छृणुयाद्वापि स योगी नात्र संशयः ॥ १८८ ॥ सर्वस्वदक्षिणां दद्यात्स्त्रीपुत्रादिकमेव च । स्वच्छन्दमानसो भूत्वा स्तवमेनं समुद्धरेत् ॥ १८६ ॥ एतत्स्तोत्ररतो देवि हररूपो न संशयः। यः पठेच्छृणुयाद्वापि एकचित्तेन सर्वदा ॥ १० ॥
स दीर्घायुः सुखी वाग्मी वाणी तस्य न संशयः। ... गुरुपादरतो भूत्वा कामिनीनां भवेत्प्रियः ॥ १६१॥
धनवान्गुणवान् श्रीमान् धीमानिव गुरुः प्रिये ।। सर्वेषां तु प्रियो भूत्वा पूजयेत्सर्वदा स्तवम् ॥ १२ ॥