________________
[८३
भुवनेश्वरीपञ्चाङ्गम् अरूपा बहुरूपा च नायिका लोकवश्यगा । अभया लोकरक्षा च पिनाकी नागधारिणी ॥ १२ ॥ वज्रशक्तिर्महाशक्तिः पाशतोमरधारिणी। अष्टादशभुजा देवी हल्लेखा भुवना तथा ॥ १३ ॥ खड्गधारी महारूपा सोमसूर्याग्निमध्यगा। एवं शताष्टकं नाम स्तोत्रं रमणभाषितम् ॥ १४ ॥ सर्वपापप्रशमनं सर्वारिष्ट निवारणम् । सर्वशत्रुक्षयकरं सदा विजयवर्द्धनम् ॥ १५ ॥ आयुष्करं पुष्टिकरं रक्षाकरं यशस्करम् । अमरादिपदैश्वर्यममत्त्वांशकलापहम् ।। १६ ॥ इति श्रीरुद्रयामले तन्त्रे भुवनेश्वर्यष्टोत्तरशतनाम समाप्तम् । ___संवत् १६४३ फाल्गुनवदि १०मी गुरुवारः॥