________________
श्रीभुवनेश्वरीसहस्त्रनाम
श्रीगणेशाय नमः श्रीदेव्युवाच
देव देव महादेव सर्वशास्त्रविशारद ! कपालखट्वाङ्गधर ! चिताभस्मानुलेपन ! ।। १ ।। आद्या या प्रकृतिनित्या सर्वशास्त्रेषु गोरिता । तस्याः श्रीभुवनेश्वर्या नाम्नां पुण्यं सहस्रकम् ।। २ ।।
कथयस्व महादेव ! यथा देवी प्रसीदति । ईश्वर उवाच
साधु पृष्टं महादेवि ! साधकानां हिताय वै ॥ ३ ॥ या नित्या प्रकृतिराद्या सर्वशास्त्रेषु गोपिता ।। यस्याः स्मरणमात्रेण सर्वपापैः प्रमुच्यते ।। ४ ।। ..
आराधनाभवेद्यस्या जीवन्मुक्तो न संशयः ।
तस्या नामसहस्रं वै कथयामि समासतः ।। ५ ।। ॐ अस्य श्रीभुवनेश्वर्याः सहस्रनामस्तोत्रस्य दक्षिणामूर्तिर्ऋषिः पंक्तिश्छन्दः आद्या श्रीभुवनेश्वरी देवता ह्रीं बीजं श्रीं शक्तिः क्लीं कीलकं मम श्रीधर्मार्थकाममोक्षार्थे . जपे विनियोगः ।
आद्या माया एरा शक्तिः श्रीं ह्रीं क्लीं भुवनेश्वरी। भुवना भावना भव्या भवानी भवभाविनी ॥ ६॥ रुद्राणी रुद्रभक्ता च तथा रुद्रप्रिया सती । .... उमा कात्यायनी दुर्गा मङ्गला सर्वमङ्गला ।। ७ ।। त्रिपुरा परमेशानी त्रिपुरा सुन्दरी प्रिया । ......... रमणा रमणी रामा रामकार्यकरी शुभा ।। ८ ॥ ब्राह्मी नारायणी चण्डी चामुण्डा मुण्डनायिका । .....
माहेश्वरी च कौमारी वाराही चापराजिता ।। || १.ग. महादेव । २. ग. भुवनाभुवना भाव्या । ३. ग. सुन्दरी सुन्दरप्रिया । ४. ग. चण्डा । ......