________________
७० ]
त्रैलोक्यमङ्गलं कवचम्
महिषमर्द्दिनी स्वाहा वसुवर्णात्मिका परा । नैर्ऋत्यां सर्वदा पातु महिषासुरनाशिनी ॥ १८ ॥ माया पद्मावती स्वाहा पश्चिमे मां सदाऽवतु | पाशाङ्कुशपुटा माया पाहि परमेश्वरि स्वाहा ॥ १६ ॥ त्रयोदशार्णा' ताराद्या अश्वारूढा ऽनिलेऽवतु | सरस्वती पञ्चशरे नित्यक्लिन मदद्रवे || २० | स्वाहा च त्र्यक्षरी नित्या मामुत्तरे सदाऽवतु । तारं माया च कवचं खे च रक्षेत् ततो वधूः ॥ २१ ॥ हुं ह्रीं फट् महाविद्या द्वादशार्णाऽखिलप्रदा । त्वरिताष्टादिभिः पायाच्छ्विकोणे सदा च माम् ।। २२ ।। ऐं क्लीं सौः सततं बाला मामृदुर्ध्वदेशतोऽवतु । विद्वन्ता भैरवी वाला भूमौ" मां सर्वदाऽवतु ॥ २३ ॥ इति ते कवचं " पुण्यं त्रैलोक्यमङ्गलं परम् ।
९
सारात् सारतरं पुण्यं महाविद्यौघविग्रहम् ॥ २४ ॥ अस्य हि पठनान्नित्यं कुबेरोऽपि धनेश्वरः । इन्द्राद्याः सकला देवाः पठनादुद्धारणाद्यतः ॥ २५ ॥
$3
१२
सर्वसिद्धीश्वराः संतः सर्वैश्वर्यमवाप्नुयुः ।
૪
पुष्पाञ्चल्यष्टकं दत्त्वा" मृलेनैव पटेत् सकृत् " ।। २६ ॥
संवत्सरकृतायास्तु पूजायाः फलमाप्नुयात् ।
१६
प्रीतिमान् योऽन्यतः कृत्त्वा कमला निश्चला गृहे ॥ २७ ॥ वाणी च निवसेवक्त्रे सत्यं सत्यं न संशयः । यो धारयति पुण्यात्मा त्रैलोक्यमङ्गलाभिधम् ॥
२८ ॥
१. व. ग. सप्तार्णा परिकीर्तिता । 'पद्मावतीपद्मसंस्था पश्चिमे मां सदाऽवतु' इति ख, ग, पुस्तकयोर्विशेषः । २. ग. मायेति परमेश्वरि स्वाहा । ३. ग. नमो दशाणां । ४ ख साऽश्वा । ५ ख, पञ्चत्वरा । ६. ख. वस्वचरी । ७. ग, खे रक्षेत् सततं वधूः । ८.ग. त्वरिताष्टाहिभिः बुधः । १. ख. मामूर्ध्वदेशे ततोऽवतु । ग. विन्दुना । १० ख स ग हस्तौ । ११. ख. एतत् ते कथितं । १२. ख. श्रंस्यापि पठनात् सद्यः । ग. धारणात्पठनाद्यतः । १३. ख. दद्यात् । १४. ख. पृथक् पृथक् । १५. ख. प्रीतिमन्योन्यतः । १६ ख तत्तनुम् । १७ ख परमेश्वरीम् ।