________________
६७८
विशेषावश्यकभाज्ये
[नि० ६५०
कम्हि णमोक्कारोऽयं इत्यादि । 'कस्मिन्' इति "सप्तम्यधिकरणे च" [२।३।३६ का०] अधिकरणं चाधारः-चतुर्भेदः-व्यापकः-तिलेषु तैलम्, औपश्लेषिकः-कटे आस्ते, सामीप्यकः-गङ्गायां घोषः, वैषयिकः-रूपे चक्षुः, रसे रसनमिति । तत्राद्य आभ्यन्तर आधारः, शेषाः बाह्याः । तत्रापि नैगम-व्यवहारौ बाह्यं वस्त्विच्छतः इति जीवादावष्टभेदे बाह्ये वस्तुनि सर्वत्र सम्भवः । 'जीवमजीवे' [गा० ३४२३] इति प्राकृतशैल्या निर्देश । अनुस्वारस्याभूतस्यैवागमः ॥३४३०॥ ___ जीवे अजीवे इति भङ्गप्ररूपणाजं सो जीवाऽणण्णो तेण तओ जत्थ सो वि तत्थेय । . एगम्मि अणेगेस वे जीवाजीवोभएमुं वा ॥३४३१॥
जं सो जीवाऽणण्णो इत्यादि । नमस्कारो जीवगुणत्वाज्जीवाधारः। सोऽपि जीवोऽन्यस्मिन् जोवे वृक्षादौ स्थित इति जीवानन्यत्वान्नमस्कारस्य वृक्षे जीवे बाह्ये नमस्कार इति । एवमजीवे कटादौ । उभयात्मकजीवाजीवयोः एकवचन-बहुवचनभेदादष्टौ भङ्गा प्रागुक्ता एव ॥३४३१॥
णणु णेगमादिवयणं पुज्जस्स तओ क ण तत्थेव । तस्स य ण य तम्मि तओ धण्णं व णरस्स छेत्तम्मि ॥३४३२॥
णणु णेगमादिवयणं इत्यादि । ननु नैगमादिनयमतम् 'पूज्यस्य नमस्कारः'। ततः किमिति स एवाधारो न भवति, येन चायमजीवाद्याधारोऽपीण्यते ? उच्यतेसत्यम् , 'पूज्यस्य नमस्कारः' इति तस्य च व्यपदिश्यते । न चावश्यं तस्मिन्नेव तेन भवितव्यम् , अन्यत्रापि नमस्कारेण भवितव्यम् , बाह्यस्थित्यभ्युपगमात् , यथा नरस्य धान्यं ब्रीह्यादि क्षेत्रे तिष्ठतीति ॥३४३२॥
एतदेव च सर्वसंग्रहः आधारमात्रे सामान्येऽपीच्छतौति सर्वविशेषणनिरपेक्षम्, यस्मादसौ
सामण्णमेत्तगाही सपरजिएतरविसेसणिरवेक्खो । संगहणयोऽभिमण्णति आधारे तमविसिट्टम्मि ॥३४३३॥
सामण्णमेत्तगाही गतार्था ॥३४३३॥ तानि चामूनि विशेषणानि संग्रहनयो नेच्छति१ द्रष्टव्यम् “वक्रादौ अन्तः" ८1१।२६। हैमप्रा०व्या०। २ व को हे। य को है। चहेत। ५२ को हे, खि त ।