________________
६७६
विशेषावश्यकभाष्ये
[नि० ६५०इतश्च शब्दादीनां नयानां पूजयितुर्धर्म एव नमस्कारः, ज्ञानत्वात् , तदितरज्ञानवत् । तदर्थ गाथाजं णाणं चेअ णमो सघातीणं ण सदकिरियाओ। तेण विसेसेण तयं बज्झस्स ण तेऽणुमण्णंति ॥३४२२॥दा। कस्स त्ति गते ।
जं णाणं चेअ इत्यादि । ज्ञानत्वे च तस्याभ्यन्तरत्वात् बाह्यद्रव्यस्य पूज्यस्य न तेऽनुमन्यन्ते शब्दादय इति ॥३४२२॥ कस्येति द्वारं गतम् ।
'केन' इति अधुना निरूप्यते-- णाणावरणिज्जस्स य दंसण[२२५-५०मोहस्स जो खयोवसमो। जीवमजीवे असु मंगेमु तु होति सव्वत्थ ॥६५०॥३४२३॥ _णाणावरणिज्जस्स य इत्यादि । पूर्वार्धेन 'केन' इति द्वारम् । गाथापश्चाधैन 'कस्मिन्' इति भविष्यति ॥३४२३॥
अथ पूर्वार्धभाष्यगाथा-- केण ति णमोक्कारो साधिज्जति लभते व भणितम्मि । कम्मक्खयोवसमतो किं कम्मं को खयोवसमो ? ॥३४२४॥
'केण' ति णमोक्कारो इत्यादि । 'केन' साधनेन साध्यते नमस्कारः-केन हेतुना लभ्यत इत्यर्थः । आह -कम्मक्खयोवसमतो कर्मक्षयोपशमेन साधनेन-कर्मक्षयोपशमाद्धेतोः ॥३४२४॥
तत्र किं कर्म ? को वा क्षयोपशमः ? इति प्रश्ननिर्वचनार्था गाथा-- मतिमुतणाणावरणं दसणमोहं च तदुवघातीणि । तप्फड्डयाई दुविधाइ सव्वदेसोवघातीणि ॥३४२५॥
मतिमुतणाणावरणं ज्ञानावरणसामान्येऽपि मति-श्रुति(त)ज्ञानावरणद्वयं परिगृह्यते, मति-श्रुतज्ञानान्तर्गतत्वाद् नमस्कारस्य । ज्ञानं च सम्यग्दर्शनसाहचर्यात् ज्ञानीभवतीति । दर्शनमोहनीयक्षयोपशमोऽप्यत्र कारणम् । तस्मात् त्रीणि कर्माणि तदुपघातीनि । तेषां च द्विविधानि फडकानि-सर्वोपघातीनि देशोपघातीनि च ॥३४२५॥
१ चेव को हे त। २ तह दी हा म । ३ मे दी हा म । १ य को