________________
विशेषावश्यकभाष्ये |
[ नि०६४९
एवं च कतविणासा० इत्यादि । कर्त्तुरन्यस्य नमस्कारेऽभ्युपगम्यमाने कृतकर्मनाशः, अकृतकर्माssगमः, एकत्वम्, तस्माच्च वस्तुसंकरः, परस्पररूपसंक्रान्तेश्च व्यतिकरः एवमादयो बहवो दोषाः - गृहस्थेन कृता भिक्षा नमस्कारो वा अन्यस्य चेद् व्यपदिश्यते यतो (तेः) - तस्माद् गृहस्थस्य कृतं कर्म नष्टम्, यतेरकृतं कर्म भागतम्, भिक्षा - नमस्कार कर्तृत्वे वा समाने एकमेव तद् वस्तु जातमिति संकरः, यतिर्वा गृहस्थः [गृहस्थो] वा यतिः स्यादिति व्यतिकरः । नैवेष्यते एवम् तस्मात् कृतनाशाsकृताभ्यागमैकत्व-संकरादिदोषभयात् येनैव यत् कृतं तस्यैव तद्युक्तं नान्यस्येति कर्त्तुरेव नमस्कारः न पूज्यस्येति ॥ ३४१४ ॥
यदि वा कश्चिदेवं मन्येत -
६७४
जति सामिभावतो होज्ज पूर्याणिज्जस्स सो त्र्त्ति को दोसो । अत्थंत [२२४- द्वि०]रभूतस्स वि जघ गावो देवदत्तस्स || ३४१५ ||
जति सामि० । 'पूज्यस्य नमस्कारः' इति व्यपदेश: सार्थकः, अर्थान्तरभूतस्वस्वामिसम्बन्घत्वात्, देवदत्तस्य गावः इति यथा ॥ ३४१५॥
ननु चायम् 'अस्येदभावः' स्वस्वामिसम्बन्धः प्रायेण बाह्यद्रव्यसम्बन्धी न गुणेष्विति असिद्धत्वं हेतोरुद्भावयन्नाह -
अस्सेदं ववदेसो हवेज्ज दव्वम्मि ण तु गुणे जुत्तो । पडयस्स सुक्कभावो भण्णति ण हि देवदत्तस्स || ३४१६||
अस्सेदं ववदेसो इत्यादि । 'पूज्यस्य स नमस्कारः' इत्ययं व्यपदेशो न युक्तः, गुणसम्बन्धित्वात्, पटस्य शाक्ल्यं देवदत्तस्य स्वमिति यथा पट एव स्वं भवति, न तद्गतं शौक्ल्यम् ॥३४१६॥
अत्राचार्य आह- सत्यम्, व्यपदेशो लोके नास्ति, तथापि तद्गुणस्य स्वत्वमनिवारितं पटशौक्ल्यं देवदत्तस्य स्वम् तेन भुज्यमानत्वात् स्वगतवर्ण स्पर्शादिवत् । एतदर्थ गाथा -
ववदेसाऽभावम्मि विणणु सामित्तमणिवारितं चैव ।
अण्णाधाराणं पि हु सगुणाण व भोगभावातो ॥३४१७॥
ववदेसा० गतार्था । ३४१७॥
"
एवं सिद्धेऽपि स्वस्वामिसम्बन्धे पूज्यस्य न युक्तो नमस्कारो व्यपदेष्टुम् —पूज्यः स्वामी न भवतीत्युक्तं भवति, तत्फलस्यानुपभोक्तृत्वात् परघनस्येव देवदत्तः । पूजयत एव नमस्कारः स्वम्, तत्फलस्य भोक्तृत्वात् स्वघनस्येव देवदत्त इति ॥ ३४९७॥ १ तो हे । २ ववदेस्रो जे ।