________________
नि० ६४९ ]
प्ररूपणाद्वारम् ।
૦૨
दात्तादिद्रुतविलम्बिता [दि] वृत्तिभेदानपेक्षते भ्रान्तत्वात्, किन्तु 'नमः' सामान्यमात्रमेवे - च्छति । ‘जीवो नमः' इति च तुल्याधिकरण तामेव ब्रूते अभेदपरमार्थत्वात् । न पुनर्जी - वस्य द्रव्यस्य नमस्कारोऽर्थान्तरभूत एव पर्याय इति जीव एव नमस्कार इतीच्छति । 'इच्छइ वा' । ' वा 'शब्दो विकल्पार्थः । कश्चित्त्वात्तु) संग्रह: [अ] शुद्धतरः पूज्यजीवपूजकजीवसम्बन्धाज्जीवस्यैव नमस्कार इत्येकं भङ्गं प्रतिपद्यते, न शेषभङ्गानिति ॥३४०८-१०॥
उज्जुसुतमतं गाणं सदो किरिया व जं णमोकारो । होज्ज ण हि सव्वधा सो जुत्तो तक्कत्तुरण्णस्स ॥३४११॥
उजुसुतमतमित्यादि । ऋजु सूत्रमतमाख्यायते - नमस्कारो हि ज्ञानम्, शब्दः, क्रिया वा स्यात् । सर्वथाऽपि तस्मात् स्वकर्त्तुरन्यस्य न युक्तो व्यपदेष्टुम्, जीवाsजीवादेः भिन्नविषयत्वात् । न हि खदिरविषयस्य छेदनस्य पलाशे व्यपदेशो युज्यते ॥३४११॥
अपि च, यदि ज्ञानं नमस्कारस्तत इदम् —
णाणं जीवाणण्णं तं कधमत्थंतरस्स पुज्जस्स । जीवस्स होतु कि वा पडिमाए जीवरहिताए ||३४१२॥
एवं सदी किरिया य सद्दकिरियावतो जतो धम्मो । णय धम्मो दव्वंतरसंचारी तो ण पुज्जस्स || ३४१३ ॥
गाणं जीवाणणं इत्यादि । ज्ञानं जीवान्नमस्कर्त्तुरनन्यत् । तत्कथमर्थान्तरभूतस्य पूज्यस्य नमस्कार [:] जीवान्तरस्य व्यपदिश्यते ? कथं वा प्रतिमायाः जीवरहितायाः, तदधर्मत्वात्, आकाशमूर्त्तत्ववत् । यदि वा नमस्कारः शब्दः, अथ[वा] क्रिया, तथापि तच्छब्द-क्रियावत एव जीवस्य तौ युक्तौ, तद्धर्मत्वाद्, घटरूपादिवत्, वैधर्म्ये आकाशरूपादिवत् । सर्वधर्मा एव धर्म्यन्तर सञ्चारिणो न भवन्तीति मर्यादा सिद्धा । तस्मान्न पूज्यस्य नमस्कारः ॥ ३४१२-१३॥
वार्थान्तरभूतस्य पूज्यस्य नमस्कारमिच्छेत् यतिभिक्षादृष्टान्तेन तस्यामी
दोषाः -
एवं च कतविणासाकतागमेगत्तसंकरादीया ।
torte मोक्कारे दोसा बहवो पसज्जंति || ३४१४ ॥