________________
६७२
विशेषावश्यकभाष्ये [नि० ६४६जीवस्स सो जिणस्स व ३ ॥३४०४-६॥
इदानी पूर्वविचारेण सह विरोधमुद्भाव्य प्रतिसमाधानं बुद्धिवैमल्याथै नयभेदप्रदर्शनार्थ च
जीवो ति णमोकारो[२२४-प्र०]णणु सन्चमतं कधं पुणो भेदो । इध जीवस्सेव संतो भण्णति सामित्तचिन्तेयं ॥३४०७॥
जीवो त्ति णमोक्कारो । ननु सर्वनयमतमुक्तं जीव एव नमस्कार इति सामानाधिकरण्यम् । किं पुनरयं भेदेन निर्दिश्यते 'जीवस्य नमस्कारः' इति ? उच्यते, नैव विरोधः, तथासमानाधिकरणरूपस्यैव जीवस्य सतो नमस्कारस्यान्येन सम्बन्धिना सह स्वामित्वं नेयम् , भेदेनैव स्व-स्वामिनोर्भेदात् , देवदत्ताश्ववत् । तस्य जीवस्य सतो नमस्कारस्यान्य एको जीवः स्वामी, बहवो वा, नमस्कार्याणां बहुत्वात् । कदाचिदजीवः प्रतिमादिरेकः देवकुलस्य देवस्य वा ग्रामवत् । कदाचिदजीवा बव्यः प्रतिमाः। एवं संयोगविशेषेण भङ्गका नेतव्याः ॥३४०७॥
अथ संग्रहनयमतमुच्यते नैगम-व्यवहारमतविपर्ययेण- . सामण्णमेत्तगाही सपरेजिएतरविसेसणिरवेक्खो । संगहणयोऽभिमण्णति तमिहेगस्साविसिहस्स ॥३४०८॥ जीवस्साजीवस्स व सस्स परस्स व विसेसणेऽभिण्णो । ण य भेतमिच्छति सता स णमोसामण्णमेत्तस्स ॥३४०९॥ जीवों णमो त्ति तुल्लाधिकरणत बेति ण तु स जीवस्स । इच्छइ वाऽसुद्धयरो तं जीवस्से णण्णस्स ॥३४१०॥
सामण्णमेत्तगाही इत्यादि गाथात्रयम् ३ । सामान्यमात्रसंग्राही- संग्रहनयः । स्वः आत्मीयः, परः परकीयो जीवः,ताभ्यामितरः अजीवः । तेषां स्व-पर-जीवे. तरेषां विशेषाः एकत्व-द्वित्वादयः, तेषु निरपेक्षो विशेषेषु, सामान्यमात्रग्राहित्वात् स्वपरजीवेतरविशेषनिरपेक्षः । स एवंप्रकारः संग्रहः सर्वैकत्ववादी। कस्य ! अवि. शिष्टस्य जीवमात्रस्य, 'अजीवस्य, स्वस्य, परस्य च' इत्येवंविशेषणनिरपेक्षः, जीवस्य स्वामिमात्रस्य सामान्यस्य परमार्थत्वात् । न च नमस्कारस्यापि शब्दस्योदात्तानु
1 मतो त । २ परि जे। ३ व नमो त । ४ रण को है त। ५ सेव