SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ नि० ६४९] प्ररूपणाद्वारम् । भिक्षावत् । यतेः भिक्षा यतिभिक्षेति सम्बन्धषष्ठीतत्पुरुषः सम्बन्धे सिद्धः, न पुनगुंहस्थस्य भिशानिष्पादकस्य दातुः मिक्षा, तस्य तन्निमित्तैश्वर्यभोगित्वात् । एतल्लोकव्यवहारविषये नैगम-व्यवहारविषये नैगम-व्यवहारनययोर्मतम् ॥३४०१॥ तथा च प्रमाणैः प्रतिपादनम् - पुज्जस्स व पज्जाओ तप्पच्चयतो घडातिधम्म व्व । तद्धेतुभावतो वा घडविण्णाणाभिधाणं व्यं ॥३४०२॥ पुज्जस्स व पज्जाओ इत्यादि । पूज्यस्यैव नमस्कारः पर्यायः, तत्प्रत्ययकारित्वात् , घटात्मीयरूपादिवत् । इतश्च पूज्यस्यैव नमस्कारः पर्यायः, तत्प्रतीतिहेतुत्वात् , घटस्य घटविज्ञानाभिधानवत् ॥३४०२॥ अधवा स करन्तो चे तस्स जं भिच्चभावमावण्णो । का तस्स णमोकारे चिन्ता दासक्खरोवम्मे ॥३४०३॥ अधवा स करन्तो चे तस्सेत्यादि । पूज्यस्यैव नमस्कारः स्वामित्वात् , दासखरवत् स्वामिस्वामित्वम् । कथम् ! इति चेत् , तत आह-स करन्तो चे तस्स जं भिच्चभावमावण्णो । नमस्कारस्य स्वामी निष्पादकस्तदधीनत्वात्, खरस्य दासवत् । नमस्कर्तुरपि स्वामी पूज्यः, नमस्कती(l) मृत्यत्वं प्रतिपय पूजनीयत्वाद् राजवत् । तस्मात् पूज्यः स्वामिस्वामीति सिद्धो हेतुः । पूज्यो नमस्कारस्य स्वामी तत्स्वामित्वाद् दासखरस्य राजवत् । तत्राष्टौ भङ्गाः-सम्बन्धविशेषापेक्षाः विवक्षावशात् प्रापितत्वात्-जीवस्य १, अजीवस्य २, जीवानाम् ३, अजीवानाम् ४, जीवस्य च अजीवस्य ५, जीवस्य अजीवानां च ६, जीवानाम् अजीवस्य च ७, जीवानामजीवानां चेति ८॥३४०३॥ एषामनुक्रमेणोदाहरणानि गाथात्रयेणजीवस्स सो जिणस्स व अज्जीवस्स तु जिणिन्दपडिमाए । जीवाण जतीणं पि व अज्जीवाणं तु पडिमाणं ॥३४०४॥ जीवस्साजीवस्स य जतिणो बिंबस्स चेगतो समयं । जीवस्साजीवाण य जतिणो पडिमाण चेगत्थं ॥३४०५॥ जीवाणमजीवस्स य जतीण विबस्स चेगतो समयं । जीवाणमनीवाण य जतीण पडिमाणमें गत्थं ॥३४०६॥ १ 'डाय हे त। २ व को है। ३ चिंतस्स त । ४ गत्थ जे। ५ ण चेग को हेत।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy