________________
६७०
विशेषावश्यकभाष्ये
[नि० ६४९संगहणयो णमोक्कारजाति० इत्यादि । संग्रहनयस्य नमस्कारजातिसामान्यमात्राक्षेपादेक एव नमस्कारः सर्वस्मिन् जगति सर्वकालमपीति । व्यवहारस्तु मन्यते एक नमस्कारपरिणतं जीवमेको नमस्कार इति, बहवो नमस्कारपरिणता जीवाः बहवो नमस्काराः अमी इत्यभिमन्यते ॥३३९८॥
उज्जुसुतातीणं पुण जेण सयं संपदं चे वत्थु ति । पत्तेयं पत्ते[२२३-द्वि०]यं तेण णमोक्कारमिच्छंति ॥३३९९॥
उज्जुमुतातीणं पुण । ऋजुसूत्रादीनां वर्तमानमात्रग्राहित्वात् 'यत् सम्प्रति स्वकं च तद् वस्तु' इति प्रतिपुरुषं नमस्कारभेदमिच्छन्ति शुद्धनयाः ॥३३९९॥ पडिवज्जमाणओ पुण एगोऽणेगे व संगहं मोत्तु । इंट सेसणयाणं पडिवण्णा णियमतोऽणेगे ॥३४००॥कधं ति गत।।
पडिवज्जमाणओ पुण । संग्रहमेकं मुक्त्वा शेषनयानां विशेषप्रधानत्वात् वर्तमानकाले एकस्मिन् प्रतिपद्यमाने नमस्कार एक एव, अनेकस्मिन् प्रतिपद्यमाने अनेके नमस्काराः । ये पुनरतीतकाले पूर्वप्रतिपन्नास्ते नियमादनेके-असंख्येयत्वात्-सम्यग्दर्शनं (ने)। एवं 'किम्' इति द्वारं नयप्रपञ्चतो निरूपितम् ॥३४००॥
अतः परं 'कस्य' इति स्वामित्वं निरूप्यते-- कस्स ति णमोक्कारो पुज्जस्स हि संपदाणभावातो । गमववहारमतं जध भिक्खा कस्स जतिणो त्ति ॥३४०१॥
कस्स ति णमोक्कारो । अवश्यं सता पदार्थेन पदार्थान्तरसम्बन्धिना भवितव्यम्, [अतः] सम्बन्धोऽन्वेषणीयः । स च बहुभेदः-कर्तृ-करण-सम्प्रदानाऽपादानाऽधिकरणादिभेदात् कारकविवक्षाधीनः, उपपदविशेषाधीनश्चेति । कस्य नमस्कारः ? इति पृष्टे स्वस्वामिसम्बन्धो गुणगुण्यादिभेदविशिष्ट माक्षिप्तो भवति । तस्य प्रतिनिर्देशः नमस्कारोपपदविशेषात् सम्प्रदानभावमुपनीयोच्यते-पूज्याय नमस्कारः । नमः-स्वस्तिस्वाहा-स्वधा- लम्-वषड्योगे स्वस्वामिसम्बन्ध एव चतुर्थ्या विभक्त्या द्योत्यते । एतन्नमस्कारकरणं नमस्कार्य-नमस्कर्तृविषयमिति द्याधीनत्वेन प्रभेदेन विवेच्यते । यद्यपि नमस्कारक्रियानिष्पादकः कर्ता, तथापि तस्य नोच्यते स्वयमनुपयुज्यमानत्वात् , यति
१. को है। २ गो को । ३ इट्ठो को है त । पुव्व० त । ५ "नमः स्वस्तिस्वाहा-स्वधा-भलम्-वषड्योगाच्च" २।३ १६। काशिका ।