________________
नि० ६९]
प्ररूपणाद्वारम् । शविशेषप्रतिषेधे, अतः स्कन्धदेशविशेषार्थद्योतको 'नो'शब्दो निपातः । नोस्कन्धो स्कन्धदेश इत्यर्थः ॥३३९५॥
भूतग्गामो गामो तदेगदेसो तओ' ति जोगामो । देसो त्ति सो किमेगोऽणेगो यो णयमतातो ॥३३९६॥
[भूतग्गामो एवमेव च नोग्रामः । ग्रामो हि चतुर्दशभूतसमुदायः। तस्यैकदेशों जीवः । तस्मान्नोग्रामो नमस्कारः अग्रामो न भवति, न चाभावः, न चान्य एवेति भूतग्रामश्चाख्यायते । सूक्ष्मैकेन्द्रियाः पर्याप्तापर्याप्तभेदात् द्वेधा, बादरैकेन्द्रिया अपि पर्याप्ता अपर्याप्ता इति द्वधा । एवमेकेन्द्रियाः चतुर्भेशः । द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाश्च त्रयोऽपि प्रत्येकं वैविध्यात् षोढा भवन्ति । एवं संज्ञिपञ्चेन्द्रियाः असंज्ञिपञ्चेन्द्रियाश्च प्रत्येकं द्वैविध्याच्चतुर्भेदाः । ततः चत्वारः, षट् चत्वारश्च भेदाः, समुदिताश्चतुर्दश भवन्ति । भूता जीवा इति पर्यायः, तेषां प्रामः समुदायः भूतग्रामः-क्षुरिकामुष्टयाकारो लिख्यते--- ॥३३९६॥
यदि चासौ देशस्ततः किम् एकः ? अनेकः ? इत्यत्र नयविचार
तप्परिणतो च्चिय जता सदादीणं तदा णमोक्कारो । सेसाणमणुवयुत्तो वि लद्धि सहितोऽधवा जोग्गों ॥३३९७॥
तप्परिणतो च्चिय जता इत्यादि । यदैव नमस्कारभावपरिणतस्तदैव तदुपयोगानन्यत्वात् शब्द-समभिरूडैवंभूतानां त्रयाणां नयानां शुद्धत्वाज्जीवो नमस्कार उच्यते, नान्यभावपरिणतः । शेषनयानां नैगमादीनां ऋजुसूत्रपर्यन्तानां तज्ज्ञानात् तज्ज्ञानलब्धिसहितोऽनुपयुक्तोऽपि प्रदीर्घजीवद्रव्यनिमित्तत्वप्रतिपत्तेः, अथवा तज्ज्ञानलब्धेर्योग्यस्तत्तद्र्व्यत्वात्तदेकत्वगतेः भाविनि भूततव)दुपचारात्॥३३९७॥
मथैकत्वानेकत्वचिन्तायाम्संगहणयो णमोक्कारजातिसामण्णतो सता एगं । इच्छति ववहारो पुण एगमिहेगं बहू बहवो ॥३३९८॥ १ नओ त। २ जओ को। ३ °द्धिजुत्तो को। १ रहिमओ को।