________________
६६८
विशेषावश्यकभाष्ये । [नि० ६४९किं जीवो तप्परिणतो इत्यादि सूत्रम् ॥३३९२॥
अस्य भाष्यम्-- किं होज्ज णमोकारो जीवो'ऽजीवो गुणोऽधवा दव्वं । जीवो णो खन्धो ति य तध णो गामो णमोक्कारो ॥३३९३॥
किं होज्ज णमोक्कारो इत्यादि । 'किम्' इति निर्देशद्वारम्, सर्वनामनपुंसकलिङ्ग निर्देशः सर्वलिङ्गैः सह यथायोग सम्बध्यते । किं सामायिकम् ? को नमस्कारः ? जीवाजीववैविध्यान्तर्गतत्वात् पदार्थानां जीवोऽजीवो वा? अथवा [द्रव्य-]गुण-प
यत्रैविध्याज्जगतः गुणः पर्यायो द्रव्यं वा स्यात् ? । तत्र प्रतिनिर्देशः-जीवो नमस्कारः, नोस्कन्धो नोग्रामश्च । अजीवो न भवति । स्कन्धो ग्रामो वा न भवति । कस्यचिद् नयस्य गुणः पर्यायो वा, कस्यचित्तु जीव एव । एतत् सामायिकव्याख्यानेऽभिहितम् । अपि च, जीव उच्यमानो नाऽविशिष्ट एव जीवः । किं तर्हि ? तत्परिणतः-तं विवक्षितं भावं परिणतः-नमस्कारभावमापन्न इत्यर्थः ॥३३९३॥
कस्मात् कारणात् ! उच्यते-- जं जीवो. णाणमयो णण्णो णाणं च ज णमोक्कारो। तो सो जीवो दव्वं गुणो ति सामाइएऽभिहितं ॥३३९४॥
जं जीवो णाणमयो इत्यादि । यस्मान्नमस्कारो ज्ञानम् , जीवश्च उपयोगलक्षणत्वात् ज्ञानादनन्यो ज्ञानमयस्तस्माज्जीवो नमस्कारः ॥३३९४॥
नोस्कन्धः । कथम् ? इत्युच्यतेसव्वत्थिमयो खंघो तदेगदेसो य ज णमोक्कारो। देसपडिसेधवयणो णोसदो तेण णोखंघो ॥३३९५॥
सव्वत्थिमयो खंघो इत्यादि । स्कन्ध इति संघातस्याख्या । स च पञ्चानामस्तिकायानां संघातः स्कन्धः सर्वास्तिकायमयः । जीवश्च नमस्कारपरिणति(त):तस्यास्तिकायसमुदायस्यैकदेशत्वात्-स्कन्धो न भवति अनेकस्कन्धत्वापत्तिप्रसङ्गात् , अस्कन्धोऽपि न भवति स्कन्धाऽभावप्रसङ्गात्, वस्तु चासौ, न चानभिलाग्य एव, तस्मात् केनचिदेतदर्थानुगुणेन शब्देनाभिधेय इति 'नोस्कन्ध उच्यते । 'नो' तद्दे
१ जीवा' त । २ त्ति को हे त । ३ करो ह। लिङ्गसर्वनामनपुंसक इति प्रतौ। .५ पृ. ६.३-गा. ३१२६तः द्रष्टव्यम् । ६ दिक्क हे। ७ पंचत्थि-प्रतौ। ८ नोशब्दपदक' प्रती।