________________
विशेषावश्यकभाष्ये
[नि० ६४६- जस्स वस तंणिमित्तो। यस्य वा वादिनः स क्षयोपशमस्तन्निमित्तः-वाचनानिमित्त इत्यर्थः-तस्यापि वादिनः सारं सारङ्गत्वात् ! तन्मात्रकारणमेवासौ वाचना [न] नमस्कारस्य, यस्मादन्यो नमस्कारः अन्यश्च क्षयोपशमः । वाचना क्षयोपशमस्य कारणम् , कर्मक्षयोपशमे नमस्कारो लभ्यत इति कर्मक्षयोपशमलभ्योऽसौ, न वाचनालभ्य इति लब्धिरेवैका कारणं युक्तेति शब्दादिशुद्धनयमतम् ॥३३६७॥
अध कारणानकारि ति कारणं तेण कारणं सव्वं । पारण बज्झवत्थु को णियमो सहमेचम्मि ॥३३६८॥
अध कारणोवकारि त्ति कारणं गाथा । नमस्कारस्य वाचना कारणम् कारणोपकारित्वात् , देहादिवत् । एवं तर्हि एतेन हेतुना सर्व प्रायेण बाह्यवस्तु कारणं प्राप्नोति । कोऽयं नियमः शब्दमात्रं वाचनैव कारणमिति ? अथ किंनामकोऽयं दोषः साधनस्य इति ? उच्यते, अनैकान्तिकः एवमुद्भावितो भवति । अकारणेऽपि बाह्यवस्तुन्यांकाशांदो कारणोपकारित्वं पारम्पर्येण दृष्टमिति कृत्वा । अथवा साध्यधर्मशून्यता काका प्रदर्श्यते । देहादिषु कारणत्वमप्रसिद्धम् । यद्यकारणेऽपि देहादौ कारणत्वं भवताऽभिमन्यते, ननु सर्वस्मिन् त्रैलोक्येऽपि आकाशादावपि कारणत्वं प्राप्तम् , अकारणत्वात् देहादिवदेवेति ॥३३६८॥
अध पच्चासण्णतरं कारणमेगंतियं च तो लद्धिं । पडिवैज्जण चेदेवं ण वायणामेत्तणियमो ते ॥३३६९॥ दारं ॥
अध पच्चासण्णतरमित्यादि । अथैवं बुद्धिंभवतः-प्रत्यासन्नं क्षा(क्षयोपशमस्य उपकारित्वं वाचनायाः, दूरे आकाशाद्युपकारित्वमिति वाचनैव कारणं प्रत्यासन्नो
१ अत्र कोटया० वृ० पृ० ८०५ एवं पाठः- "यस्य पुंसः स क्षयोपशमः तन्निमित्तो वाचनानिमित्तः तस्यापि तन्मात्रकारणम्-क्षयोपशममात्रकारणं भवेत् न पुनर्नमस्कारस्य असौ कारणम् तस्य कर्मक्षयोपशमकारणत्वात् । अनन्यकारणं वस्तुस्थित्या स्थितं तद् अन्यकारणं न भवति-तद्यथा-शाल्यकुरो वल्ल कारणो न भवति तथा च नमस्कारः" ।
एवमेव मलयगिरिवृत्तौ पृ. १८६ ।
भयमेव भाशयः मलधारिहे. वृत्तौ गा०२८३७ पृ.११२४ । एषां वृत्तिकाराणाम् भाशयसमीचीनतया निरीक्ष्य संप्रेक्ष्य च अत्र वृत्तौ स्थितं "सारं सारङ्गत्वात्" इत्येवमक्षरजाल निरर्थक प्रतिभाति अथवा एतदु भन्यतः कुतोऽपि लिपिकारप्रमादवशाद् अत्र समागतं संभावनीयमिति । अथवा 'सारं सारङ्गत्वात्' अस्य शुद्धपदं 'म संसाराङ्गत्वात्' इति संभवेत् ।
२ बज्ज कारण तो न वा० को। .