________________
६५८ विशेषावश्यकभाष्ये
[नि० ६४६समुत्थाणं' ? यदि पूर्वोत्पन्न एव किं तदुत्पत्ति निमित्तेन ? अनुत्पन्नं यत् तदुत्पद्यत इति युक्तिः । अथैवं ब्रूयात्-पूर्वोत्पन्नः शक्तिमात्रेण, सम्प्रति काले तु कारणादभिव्यक्तिमुपगच्छन्नुत्पद्यत इत्युच्यते । एवमप्यभिव्यक्तिस्तस्य वाचनातः परोपदेशात् लब्धितो वा स्वयमेवावरणक्षयोपशमसम्भूतेरनुपदेशादित्यर्थः । ततश्च वाचना-लब्धी एव कारणे, न तव्यतिरिक्तं समुत्थानं नाम ॥३३६१॥
एनमेव अर्थ गाथया आचार्य उन्नमइ(य)तिपरतो सयं व लाभो जति परतो वायणा सयं लद्धी। जं ण परतो सयं वा ततो किमण्णं समुत्थाणं ॥३३६२॥
परतो सयं व लाभो । नमस्कारलाभो भवन् भवेद् द्विधा-परतः स्वयं वा । यदि परतस्ततो वाचनैव । अथ स्वयम् ततोऽसौ लब्धिरेव, तृतीयविकल्पासम्भवात् अन्यत् समुत्थानं नात्येव ॥३३६२॥
एतदेव पुनरुपपत्त्यन्तरेण भावयन्नाहउप्पज्जति णातीयं तक्किरियोवरमतो कतघडो व्य । अधवा कतं पि कीरति कीरतु णिच्चं जतो णिहा ॥३३६३॥
उप्पज्जति णातीयं । 'पूर्वोत्पन्नमुत्पद्यते' इति ऽवता अतीतमुत्पद्यते इत्यभ्युपगतं भवति । तत्प्रतिषेधार्थ प्रमाणम्-नातीतमुत्पद्यते उपरततक्रियत्वात् , कृतघटवत् । अथैवं ब्रूयात् परः-साध्यधर्मशून्योऽयं दृष्टान्त इति-कृतघटोऽप्युत्पद्यत एव क्रियत एवेति अस्मिसि(स्मत्सि)द्धान्त एव, तर्हि अनिष्टापादनप्रमाणम्-न कदाचित् कृतघटव्यपदेशो भवतः प्राप्नोति, सदा क्रियमाणत्वादर्द्धकृतघटवत् ततश्चानिष्ठा । दृश्यते च सर्वसम्मता क्रियोपरमात् निष्ठा । तत एवंवादिनोऽभ्युपगमविरोधः ॥३३६३॥
अथवाऽभ्युपगम्य ब्रूमःहोतु व पुव्वुप्पातो तध वि म सो लद्धि-वायणाभिण्णो। जेण पुरा वि सयं वा परतो वा होज्ज से लाभो ॥३३६४॥ ___ होतु व पुव्वुप्पातो । भवतु नाम त्वदभिप्रायेण पूर्वोत्पादः, तथाऽप्यसौ भवन् कारणे(ण)सापेक्ष एव न निष्कारणः, यच्च कारणं तस्य तद् वाचना-लब्धिव्यति
१ को को हेव।