________________
नि० ६४६] उत्पत्तिद्वारम् ।
६५७ भवितुमर्हति, विनापि तेनोपजायमानत्वात् , यवबीजाङ्कुरस्य वल्लबीजादिवत् । अथ स्वावरणक्षयोपशमलब्धिरेव वीर्यमुच्यते, ततः सत्यमनन्तरकारणत्वादि सर्वमुपपन्नम् । तथा च सिद्धसाधनम्-लब्धिरेव समुत्थानशब्देनोक्तेति । लब्धितोऽन्यत्वात् लब्धिव्यतिरिक्तं समुत्थानं कारणम् । इष्यते च तृतीयं निमित्तं समुत्थानमिति । तस्मात् पूर्वमेव व्याख्यातं देहादिसमुत्थानं समुत्थानम् , न स्ववीर्यमिति ॥३३५९॥
अथ वाचना-लब्धिनिमित्तयोः स्वरूपव्याख्यानाय गाथापरतो सवणमेहिगमो परोवदेसो त्ति वायणाऽभिमता । लद्धीय तदावरणक्खयोवसमतो सयं लाभो ॥३३६०॥
परतो सवणमहिगमो । परतः श्रवणम्-अधिगम उपदेशश्च वाचनेत्यु(त्य)पदिश्यते । लब्धिस्तु तदावरणक्षयोपशमः-स्वयं लाभ इत्यर्थः । एतानि त्रीणि निमित्तानि अशुद्धा नैगम-संग्रह-व्यवहारा इच्छन्ति, "प्रथमे नयत्रिके” [गा०३३३७] इति वचनात् ।
___ननु च प्रथमनयत्रिके शुद्धनैगमः शुद्धः सङ्ग्रहश्च कथमिव त्रिविधं निमित्तमिच्छतः । उच्यते, आदिनैगमग्रहणेन प्रथमनयत्रिकात् त्रयो भक्तालित्वात् (तयोः "उत्कलितत्वात् ) आदिनैगमः शुद्धसंग्रहश्चैकमतत्वात् एक एव, तस्योत्पत्तिरेव नास्ति, सर्वभावनित्यत्वात् , अतो देशवाहिनैगमः, देशसंग्रहः, विशेषप्रधानैर्व्य(धानो व्य)वहारश्च पर्यायगन्धसंस्पृष्टत्वादुत्पत्तिमिच्छन्ति । तस्याश्चोत्पत्तेस्त्रैविध्यमशुद्धत्वादेवेच्छन्ति । अतः सूत्रगाथायामादिनैगमं मुक्त्वा शेषा अशुद्धा नैगम-सङ्गह-व्यवहाराः ऋजुसूत्र-समभिरूद्वैवंभूताः तेषामाद्यम् त्रिविधं निमित्तमिच्छन्तीत्युक्तम् । अथ सूत्रगाथावयवः-'उज्जुसुय पढमवज्ज[गा०३३३७] ऋजुत्रसूस्य मतमिति वाक्यात्पः(क्यशेषः)। प्रथमवर्जम्प्रथमं समुत्थानम् तद्वर्जम्-निमित्तद्वयम्-वाचना लब्धिश्च एतद्वयम्-ऋजुसूत्र इच्छति । एतदुपपत्तिर्भाष्यगाथया वक्ष्यते-ऋजुसूत्रवर्जाः शेषनयाः शब्दनयास्तेलब्धिमेव निमित्तमे कमिच्छन्ति । इयमप्युपपत्तिर्वक्ष्यमाणैव भाष्यतः ॥३३६०॥
अस्यानुक्रमेण भाष्यगाथाउज्जुसुतणयमतमिणं पुव्वुप्पण्णस्स किं समुत्थाणं ? ॥ अध संपतमुप्पज्जति ण वायणालद्धिभिण्णं ते ॥३३६१॥
उज्जुसुतणयमतमिणं । यदुक्तं 'पुव्युप्पण्णस्स वि से इध भवभावो समुस्थाणं गा० ३३५८] इति, तदाद्यनयत्रयमतं निराकरिष्णुराह-'पुव्वुप्पण्णस्स किं
१णमिह त । २ हरि० पृ. ३७८ प्र. पं. ७ । कोटया० . पृ. ८०१ पं. ८ "द्वयोः उत्कालितत्वात्" ।३ पइमु को हे। ? ति त ।