________________
६५६ विशेषावश्यकभाष्ये
[नि० ६४६उप्पत्तिमतोऽवस्सं णिमित्तमस्स तु णयत्तियं तिविधं । इच्छति णिमित्तमेत्तो जमण्णधा पत्थि संभूती ॥३३५७॥
उप्पत्तिमतोऽवस्सं । स्फुटार्था । उत्पत्तिमतो निमित्तमवश्यं भावीति नयत्रिकं त्रिविधं निमित्तमिच्छति-अन्यथोत्पत्तेरसम्भवः इति-समुत्थानं वाचना लब्धिरिति ॥३३५७॥
तेषां क्रमेण प्रदर्शनम्--- देहसमुत्थाणं चिय हेतू भवपच्चयाऽवधिस्सेव । पुव्वुप्पण्णस्स वि से इधभवभावो समुत्थाणं ॥३३५८॥
देहसमुत्थाणं चिय । सम्यगुत्थानं समुत्थानम् , सङ्गतं प्रशस्तं वा उत्थानं समुत्थानम् , अथवा स्वयमुत्थानम्-प्राकृतशैल्या यकारलोपः- तच्च स्वयमुत्थानं वीर्य किलोच्यते । तत्र विचारः- समुत्थानं निमित्तं नमस्कारस्येति कस्य समुत्थानम् ! अन्यस्याऽश्रवणात् तदाधारभूतस्य प्रत्यासन्नत्वाद् देहस्यैव समुत्थानं युक्तम् । देहोत्पत्तिरेव तस्य नमस्कारस्योत्पत्तिकारणम् , तद्भावभावित्वात् नारक-देवावधिरिव । यद्यप्यसौ स्वावरणक्षयात् पूर्वोत्पन्नस्तथापि तद्भावाभिव्यङ्गयत्वात् स एव तद्भावस्तस्य निमित्तम् , तदभिव्यञ्जकत्वात् , पूर्वोत्पन्नस्याऽ[वै]स्थितवायोरिव व्यञ्ज(ज)नकः, सिद्ध.
चाs[व]स्थितवायुर्यो व्यञ्ज(ज)नाद् व्यक्ततां समुपयाति यदि सद्यः पैरिणम(न्ते) समुनु(मन्त)सिद्धा आस्थिता स्कन्धाः (१) ॥३३५८॥
अण्णे सयमुत्थाणं सविरियमण्गोवकारविमुहं ति । तद[२२१ म०]जुत्तं तदवत्थे चुतलद्धे लद्धितो णणं ॥३३५९॥
अण्णे सय० गाहा । अन्ये आचार्याः "स्वयमुत्थानं स्ववीर्यस्व(स)मुत्थानम्"[] माहुः। तच्चास्य नमस्कारस्योत्पत्तिनिमित्तम्, नान्यत् , अन्योपकारविमुखत्वात् अन्यकारणनिरपेक्षत्वादनन्तरकारणत्वादित्यर्थः, यवाकुरस्येव यवबीजम् । तच्चायुक्तमेवं प्रतिपत्तुम् , अन्यकारणनिरपेक्षत्वहेतोरसिद्धत्वात् , न हि तदीय(वीर्य)मनन्तरकारणम् । किं तर्हि ! स्वावरणक्षयोपशमलब्धिः, यस्मात् स्वकारणादुपजाते नमस्कारे तदा(द)वस्थे स्वावरणोदयात् प्रच्युते, पुनः सद्य एवावरणक्षयोपशमात् प्रतिलब्धेः(ब्धे) स्वयं परोपदेशादिनिरपेक्षसिद्धेः स्ववीर्येण पुरुषकारेण विनापि तल्लाभात् न स्ववीय कारणं
भय जे । २ "यथाऽवस्थित एव महद् व्यजनेनाभिव्यज्यते” इत्यादि (कोट्या. ५० पृ० ८०३) विलोक्यम् । ३ अस्य वाक्यस्य अर्थस्पष्टीकरणाय मल• हेम० वृ• पृ०११२१ पाताया. २८१८ गाथाया वृत्तः प्रान्तभागो विलोकनीयः । समन्ततो वर्तमाना वायोः स्कन्धा • यदि सचः परिणमन्ते तदा ते अव्यक्ता अपि व्यक्तता यान्ति इति आशयः प्रतिभासते ।
सयस त । ५ भुत त।