________________
६५५
'नि० ६४६ ] . उत्पत्तिद्वारम् ।
अतीन्द्रियार्थत्वान्नित्यः गा० ३३४८]इत्यपि शब्दसामान्ये धर्मिणि अतीन्द्रियार्थत्वादित्यव्यापकासिद्धः, विशेषे स्वर्गादिशब्दे धर्मिणि केवलज्ञानमपि [गा० ३३४८ वृत्तौ] पर्यायादनित्यमिति साध्यशून्यदृष्टान्तदोषः । ___ अनवस्थातो नित्यः [गा०३३४८] इत्येतदप्यसत्, अनवस्था एव अवस्थान सर्वदा, संसारसन्तानाऽनादित्वात् कुक्कुटयण्डकवत् । चक्रकेषु वेष्टतो व्यवस्था ।
न च सम्बन्धो नित्यः [गा०३३४८] सम्बन्धिनामनित्यत्वात् । यस्माच्च परस्परदूषण सामान्यविशेषवादिनोऽनेकत्रा(स्या)पि वस्तुसंसिद्धिः। यत उक्तम्
"भेदगतमखिलमसदिति विरौति सामान्यवादिनः पक्षः । सामान्यमशेषमसद् विशेषवादी विरौत्येवम्" ॥[ ] सिंहस्ररिक्षमाश्रमणपूज्यपादास्तु"सामान्य निर्विशेषं द्रव-कठिनतयोर्वाद्यदृष्ट (ाद्यदृष्टं)यथा किम् ? यो(ये)ऽन्या(न्ये) शून्या विशेषास्तरव इव धरामन्तरेणोदिताः के ! । किं निर्मूलप्रशाखं सुरभि खकुसुमं स्यात् प्रमाणं प्रमेयम् ? स्थित्युत्पत्तिव्ययात्म प्रभवति हि सतां प्रीतये वस्तु जैनम् ॥ [ ]॥३३५४॥
अथ पर्यायवादी स्वपक्षसाधनान्युद्भावयन्नाह - धणिरुप्पाती इन्दियगज्झत्तातो पयत्तजत्तातो। पोग्गलसंभूतीतो पच्चयभेदे य भेतातो ॥३३५५।।
धणिरुप्पाती इन्दियगज्झत्तातो इत्यादि । उत्पादौ शब्दः इंदिय इन्द्रिय). ग्राह्यत्वाद्, घटवत् रूपवत् । 'उत्पादी वा नित्यः' इत्यसिद्धं घटवदेव । यथा उत्पादी शब्द:-कृतक इत्यर्थः-प्रयत्नजत्वात् , पुद्गलेभ्यः सम्भूतेः, प्रत्ययभेदभेदित्वात्, घटवदेव ॥३३५५||
उप्पाति णाणमिटुं णिमित्तसम्भावतो जघा कुंभो । तध सह-कायकिरिया तस्संजोगो वै जोऽभिमतो ॥३३५६॥
उप्पाति णाणमिह । ज्ञान-शब्द-कायक्रिया-एतत्संयोगो वा यो नमस्कारोऽभिमतः, सर्वाण्येतानि उत्पादीनि, निमित्तादुपजायमानत्वात् , कुम्भवत् ॥३३५६॥
१ गेझ को । २ "तिय णा त । ३ य हे त।