________________
६५४
विशेषावश्यकभाष्यै
णय पज्जयेतो भिण्णं दव्वमिगंततो जतो तेणं । aण्णासम्म कथं वा भादयो सव्वधा णिच्चा || ३३५३ ||
णय पज्जयतो भिण्णं । न हि पर्यायादात्मीयात् किञ्चिद् द्रव्यमेकान्त भिन्नमुपलभ्यते यत् सम्भाव्येत तस्मिन् पर्याये' विनिर्जातेऽप्यविनि (न)ष्टमेकान्ताविकृतं नित्यत्वमिति । यतस्तु पर्यायादनन्यद् द्रव्यम् ततस्तत्पर्यायनाशे तेनात्मना तद् द्रव्यं नश्येत्, नान्यपर्यायात्मना, अनेकपर्यायानन्त (न्य ) रूपत्वाद् एकेनात्मना नश्यति, अन्येनात्मनोत्पद्यते अन्येनात्मना ध्रुवमिति बहुत्वादात्मनामेकस्य वस्तुन इति । तस्मात् कथमिव एकान्तेन आकाशादयो नित्याः प्रतिपत्तु शक्या इति ? | ३३५३॥ णिच्चत्तसाधणाणि य सदस्सासिद्धदादिदुहाई | संभवतो वच्चाई पक्खोदाहरणदोसा य || ३३५४॥
[ नि० ६४६
free aaraणाणि य इत्यादि । यान्यपि शुद्धनैगमनयवादिना शब्दस्य नित्यत्वसाधनान्युपात्तानि दर्शनपरार्थत्वादीनि तान्यप्यस्मन्मते सर्वाण्यसिद्धतादोषदुष्टानि यथासम्भवं वाच्यानि । प्रतिज्ञा - दृष्टान्तदोषाश्च स्वयम् भ्यूया इति ग्रन्थगौरवभयादाचार्यः परिश्रान्ततां चात्मनः ख्यापयन् दिङ्मात्रं दर्शयति, स्याद्वादसामर्थ्यात् सुकरतां वा प्रमाणदूषणस्य आचक्षाण एवमाह-वयं तु जडप्रज्ञाः किञ्चित् किञ्चिदभ्यूह्य सुखावबोधार्थं दर्शयामः - यदुक्तम् 'लयण- पयासपरिणामतो व [गा० ३३४७] लय-प्रकाशपरिणामवत्त्वादित्यसिद्धः, अभूत्वोत्पादात् प्रकाशनाभावः भूत्वा च सर्वथा विनाशाल्लयो [वा] नास्तीति । पर्यायार्थवादिनः परमाणवोऽप्यनित्या इति साध्यसाधनधर्मशून्यता दृष्टान्तदोषः, पर्यायैकान्तत्रा (वा) दिनो 'नित्यः शब्दः' इत्यप्रसिद्ध विशेषणः पक्षाभासः । तथा यदुक्तम्
'द रिसण परत्थताओ' [गा० ३३४८ ] इत्यादि । अत्रापि यद्येवं प्रयोगःनित्यः शब्दो दर्शन परार्थत्वादिति, तदा दर्शनस्य परार्थत्वं धर्म इति शब्दस्यापक्षधर्म इत्यंसिद्धः । अथ अर्थहेतुरयं प्रयोगः, हेतुस्तु - निः (नित्यः शब्दः परार्थदर्शनत्वादिति, तदा भवति पक्षधर्मः, दृष्टान्तः साध्यधर्मशून्यः - न हि किञ्चित् परार्थदर्शनं वास्यादि नित्यं दृष्टमिति दृष्टान्तदोषः । उत्पादकाल एव च ' शब्दः' इत्येवमाख्यायते, नोत्पादकालात् प्राक् । उत्पादकालाद्यदि तत्प्रागपि विद्यते ' शब्दः' इति श्रोत्रोपलब्धिः शब्दः । न च तदानीमुपलभ्यते श्रोत्रेणेति आश्रयासिद्धत्वं प्रत्यक्षविरोधो वा ।
.१ "ज्जव हे । २ "ये परभु विभि इति प्रतौ । ३ स्सासासियाइदु को । ४ मंत्पूया इति इति प्रतौ ।