________________
नि० ६४६)
उत्पत्तिद्वारम् । त्वहेतु वस्वरूपेणोत्पादित्वेनाऽनित्यत्वेन च विपर्ययेण व्याप्त इति प्रत्युत विपर्ययं साधयति । उत्पद्यते यस्माज्जीवः स्वतोऽनन्येन बहुधा देवादिभावेन सुवर्णाङ्गुलीयक-कटकादिभाववत् ॥३३४९॥
यदपि चोक्तम्-नित्यं ज्ञानं नित्योद्धाटानन्तभागत्वात्, जीवस्वरूपवत्, अयमप्यसिद्धो हेतुः अपक्षधर्मत्वात् । यस्मात्
अविसिहक्खरभाओ मुत्तेऽभिहितो ण सम्मणाणं ति । कोऽवसरो तस्स इषं सम्मं णाणाधिगारम्मि ॥३३५०॥
__ अविसिटक्खरभाओ मुत्तेऽभिहितो । अविशिष्टं ज्ञानमात्रं सम्यग्-मिथ्यादर्शनसाहचर्यविवक्षाऽभावात् सूत्रेऽभिहितं धर्मि । इह पुनः सम्यगज्ञानाधिकारात् पञ्चनमस्कारः सम्यग्दर्शनसहभावि ज्ञानं धर्मित्वेन प्रस्तुतम् । तस्य विशिष्टज्ञानस्य अनन्तभागो नैव नित्योद्घाट उक्त इत्यपक्षधर्मत्वम् ॥३३५०॥
यदपि चोक्तम्-नित्यः शब्दः अरूपगुणत्वात् नभोवगाहवदिति । तत्रापि प्रतिविधीयते
अवगाहणातयो गणु गुणत्ततो चे[२२०-द्वि०] अ पत्तधम्म व्व । उप्पातातिसभावा तध जीवगुणा वि को दोसो ? ॥३३५१॥
अवगाहणातयो णणु इत्यादि । एष साध्यधर्मशून्यो दृष्टान्तः, यस्मान्नभोsवगाहोऽप्यनित्य एव, गुणत्वात् , पत्रधर्मनीलतादिवत् । एवं जीवगुणा अपि ज्ञानदर्शनादयः सर्वे उत्पाद-विगम-ध्रुवस्वभावा इति ॥३३५१॥
अपि च कण्ठतोऽप्यवगाहाऽनित्यत्वप्रदर्शनी गाथा । अवगादारं च विणा कैतोऽवगाहो ति तेण संजोगो । उप्पादी सोऽवस्सं गच्चुवगारादयो चेवं ॥३३५२॥
अवगाढारं च विणा । नमसोऽबगाहः स्वलक्षणमुपकारः। स चावगाढारमन्तरेण-जीवं पुद्गलं वा-नाभिव्यज्यत इति । अथवाऽवगाह(ढ)जीवादिसंयोगमात्रमवगाह इति सिद्धम् । संयोगश्चोत्पादी, संयुज्यमानवस्तुजन्यत्वात् , द्वचङ्गुलसंयोगवत् । यथा चाऽवगाह आकाशस्य, एवं गति-स्थित्युपकारादयोऽपि धर्मादीनां गतिमदादिद्रव्यसंयोगत्वात् तदुत्पादादिस्वभावा इति ॥३३५२॥
यच्चोच्यते नित्यशब्दवादिना-गगनादिसाधान्नित्यत्वमिति, तदपि च न, यस्मात् सर्वमपि वस्तु सदृष्टान्तमेकान्तनित्यं न भवति तद् दर्शयति
१ चेव को हे। २ कु को हे । ३ पेवं जे, चेव त।