________________
विशेषावश्यकभाष्ये [नि० ६४४तम्हा सो मुत्तं चिय । यस्मात् सूत्रमेव सूत्रावयवो नमस्कारः, तदादित्वात् । अतस्तमेव प्राग् व्याख्याय पश्चाद् व्याख्यास्यामः सामायिकम् ॥३३३४॥
इति नमस्कारनियुक्तिसूत्रापनी गाथाउप्पत्ती णिक्खेवो पदं पतत्थो पख्वणा वत्थु । अक्खेव पसिद्धि कमो पयोयण फलं णमोक्कारो ॥६४४॥३३३५॥
दारगाधा॥ उप्पत्ती णिक्खेवो इत्यादि । उत्पादनमुत्पत्तिरिति क्रियासामान्यम् । सत्पदार्थे(थों) नमस्कार इति सत् किञ्चिदुत्पादनत्रिविधेन प्रयोग-मि(वि)श्रसा-मिश्रात्मकेन सम्बध्यते । किञ्चिदनुत्पादमेव स्वतः परतो वा । एतन्नयापेक्षया चिन्त्यम् । निक्षेपणं निक्षेपः न्यास इत्यर्थः । सामान्यविशेषात्मकत्वाद् वस्तुनः सर्वव्यापिनी बुद्धिर्निक्षेपेण विशेषेऽवस्थाप्यते । स च वाग्गोचरे पद(दे) प्रतिबद्ध इति पदविचारः । तदर्थः सामान्यविशेषात्मक इति नयगतेबहुधाऽवस्थित इति पदार्थविचारः । तस्यार्थस्य निर्देशः सदाद्यनुयोगद्वारविषयत्वात् । द्विविधा प्ररूपणा-प्रकर्षनिरूपणा । वसन्त्यस्मिन् गुणा इति वस्तु नमस्कारार्हम्-नमस्कारस्याश्रयः । आक्षेपणमाक्षेपः बुद्धिपरिकर्मणार्थम्-'नैवे'दमित्थं युज्यते' इति । तस्यैव स्वरूपावस्थानं प्रसिद्धिः । किमर्थमेषानुपूर्वीति प्रयोजनार्थः क्रमः । एतस्य पुनर्नमस्कारस्य किं प्रयोजनम् । क्रियानन्तरं फलं प्रयोजनम् , कालान्तरनिष्पन्न प्रयोजनमेव फलमुच्यते इति प्रयोजन-फलयोर्विशेषः । एवमेतान्येकादशद्वाराणि नमस्कारवक्तव्यानीत्युदेशः ॥३३३५॥
उत्पत्तिद्वारनिरूपणाय नियुक्तिसूत्रगाथाद्वयम्उप्पण्णाणुप्पण्णो एत्थ गया 'णेगमस्सऽणुप्पण्णो । सेसाणं उप्पण्णे जति कत्तो तिविधसामित्ता ॥६४५॥३३३६॥ समुट्ठाण-चायणा-लद्धितो य पढमे णयत्तिए विविधं । उज्जुमुत पढमवज्जं सेसणया लद्धिमिच्छन्ति ॥६४६॥३३३७॥ उप्पण्णाणुप्पण्णो । समुट्ठाण-चायणा-लद्धितो य ॥३३३६-३७॥
अनयोर्भाष्यगाथा१ या वातिणे जे, याऽऽइणे दी हा म। २ निग• दी हा । ३ णो को हे दी