________________
४९
नि० ६४६].
उत्पत्तिद्वारम् । सत्तामेत्तग्गाही जेणादिमणेगमो ततो तस्स । उप्पज्जति णाभूतं भूतं णे य णासते वत्थु ॥३३३८॥
सत्तामेत्तग्गाही इत्यादि । उत्पन्नो नमस्कार उत्पत्तिमान् । अथवा अनुत्पन्नः, सदा सिद्धत्वादाकाशवत् । उत्पन्नश्च यः अनुत्पन्नश्च स इति समानाधिकरणसमासः । "क्तेन नविशिष्टेनान" [२।१।६०।पाणि ०] कृताकृतादिवत् । स्याद्वादिन एवैवंप्रकारः समासो युज्यते, नैकान्तवादिनाम् 'परस्परविरुद्धधर्मसम्बन्धित्वमेककाले एकस्य वस्तुनो नास्ति' इति ब्रुवताम् । तत् पुनर्विरुद्ध[धर्म]सम्बन्धित्वम् एके(एकस्मिन्) काले नयमतैर्भाव्यते, व्यपेक्षावशात् ।
तत्र नया नैगमादयः सप्त । नैगमो द्विप्रकारः-समग्रमाही आद्यः, देशसंग्राही विशेषपरिक्षेपी द्वितीयः । तत्रादिनैगमस्य-सामान्यमात्रावलम्बिता, सत्तामात्रप्राहित्वात्-सर्व वस्तु सदेव । सत्त्वाच्च सदा सन्निहितत्वान्नाभूतः(तम्), भूति(त) त्वाच्च नोत्पद्यते, आकाशवत् , भूतत्वादेव न भविष्यति तद्वदेव ॥३३३८॥
तो तस्स णमोकारो वत्थुत्तणतो णभं व सो णिच्चो । संतं 'पि तं ण सव्वो मुणति सरुवं व वरणातो ॥३३३९॥
तो तस्स णमोक्कारो । आदिनैगमस्य नमस्कारो नित्यः वस्तुत्वातू नभोवन(नमस्वत्)। अथात्राशङ्केत कश्चित्-न नित्योऽसौ नसं(म)स्कारः, सदा सर्वेणानुपलभ्यमानत्वात् , घटादिवत् । यदा च नोपलभ्यते तदा नास्ति, अनुपलभ्यमानत्वात् , खरविषाणवत् । एतत्(तस्य) अनैकान्तिकत्वि]ख्यापनाय गाथापश्चाईम्-"संतं पितं ण सम्बो मुणति सरुवं व वरणातो। इह सतोऽपि वस्तुनः अति दूरातिसामीप्येन्द्रियदौर्बल्यमनोऽनवस्थानाभिभवसौक्ष्म्याभिभव(क्ष्म्यव्यवधान)समानाभिहारादिभिः कारणैरनुपलब्धिरित्यनैकान्तिकः। स्वरूपं ह्यात्मनोऽस्ति । तद् ज्ञानावरणादतिसौक्ष्म्यात् केनचिन्नोपलभ्यते तद्वन्नमस्कारोऽपि विद्यमानः स्वावरणोदयात् केनचिन्नोपलभ्यते, न पुनरभाव इति कृत्वा एतदादिनैगमनयमतमाख्यातम् ॥३३३९॥ ___ अथ शेषमतानिसेसमतं णत्थि तओऽणुप्पातविणासतो खपुष्पं व । जतिहत्थि तदुप्पात-व्वय-धुवधम्मं जहा कुंभो ॥३३४०॥
१ स त । २ पि ण तं संत। ३त्वान्नभवेत् इति प्रतौ। "अतिदूरात् सामीप्यात् इन्द्रियघातात् मनोऽनवस्थानात् । सौक्षम्यात् व्यवधानात् भभिभवात् समानाभिहाराच्च" ॥७॥ सांख्यकारिका । ५ 'नानियतसौं इति प्रतौ। ६ "स्ति ते ज्ञा" इति प्रतौ।