________________
६४०
विशेषावश्यकभाष्ये
रागोसविरहितो समो ति अयणं अयो' त्ति गमणं ति । समतागमो समायो स एव सामाइयं होति ॥ ३३०५ ॥ सम्ममयो समयो त्तिय सम्मं गमगं तु सव्वभूतेसु । सो जस्स तं समइयं जम्मि व भेतोवयारेणं ॥ ३३०६ ॥
[ नि० ६४२
रागद्दोसविरहितो इत्यादि । रागो माया - लोभस्वरूपः, द्वेषः क्रोध-मानस्वात्मा, उभयं विषम्य (म)गमनम् – उभयमार्गान्तरालवर्त्ती समो मध्यस्थ उच्यते, 'इणू गतौ' इत्यस्य अयनमयः—गमनमित्यर्थः - सम्यग् अयः समायः - समता प्रतिपत्तिः, स एव समायः-स्वार्थे ‘विनयादिभ्यष्टक् " [ ५ । ४ । ३४ । पाणि०] - सामायिकम् । अथवा 'सम्' इत्युपसर्गः 'सम्यक्शब्दस्यार्थे । सङ्गतः अयः समयः - सम्यग् भूतेषु स ( ग )मनं दयापूर्वकम् - समयोऽस्यास्तीति - "अत इनिठनौ” [५। २ । ११५ । पाणि० ] इति ठन् प्रत्ययः, "ठस्येकः " [ ७ । ३ । ५० । पाणि० ] इति इकादेशः - समयिकम् । 'जंमि व' इति सप्तम्यर्थं दर्शयति- समायोऽस्मिन् विद्यत इति तथैव ठन् । भेदोपचारेण जीव-गुणयोरिति ॥३३०५-६॥
रागादिरहो सम्मं वयणं वादोऽभिधाणमुत्ति त्ति । रागातिरहितवातो सम्मावातो ति सामइयं ॥ ३३०७॥ अपक्खरं समासो अथवा सोऽसणमघासणं सव्वैा । सम्मं समस्स वासो होति समासो त्ति सामइयं ||३३०८ ||
रागादिरहो सम्मं । अध्यक्खरं समासो । अल्पाक्षरता चत्वार्यक्षराणि सामाविकमिति । तस्य पर्यायशब्दः समासः अव्युत्पत्तिपक्षे । अथ व्युत्पाद्यते - 'असु क्षेपणे' असनं आसः - क्षेप इत्यर्थः । 'सं' शब्दः प्रशंसार्थे । शोभनमसनं समसनं समासः, 'सद्वा' इ[ति] 'वा' शब्दः पूर्वविकल्प संसूचनार्थः, उत्तरविकल्पप्रदर्शनार्थो वा । अथवा 'सं’शब्दः सम्यगर्थः सम्यगासः । अथवा रागद्वेषरहितः सम इत्युक्तः, तस्य समस्य मध्य[स्थ]स्य आसः क्षेपः- संयमक्रियाणां समासः । अथवा 'आस उपबेशने' आसनम् आसः, तथैव 'सं' शब्दस्य व्युत्पत्तिः । स एवंविधः समासः सामायिकमित्युच्यते ॥ ३३०७-८॥
संखिवणं संखेवो सो जं थोवक्खरं महत्थं च ।
सामइयं संखेवो चोदस पुव्वत्थपिण्डो त्तिं ||३३०९ ॥ दाई ॥
१ मंट को, भट हे । २ 'उ हें । ३ य स' हे त । ४ सा तं । कोसम्म जे । वसो जें । ८ 'नसेसज्ञ सेमसन - इति प्रत
५ सदा जे