________________
नि० ६४२-] निरुक्तिद्वारम् ।
तच्चा सम्मादि द्वि त्ति दसणं तेण सम्मदिहि त्ति । मोहो वितधग्गाहो तैदण्णधा दसणममोहो ॥३३०१॥
तच्चा सम्मा० इत्यादि । तद्भावस्तत्त्वम् , तत्त्वमेवार्थो यस्याः सा तत्त्वार्था । दृष्टिदर्शनम्-अभ्युपगमः, सम्यक्छब्दस्तत्त्वार्थ इति सम्यक् तत्त्वेनार्थानां प्रतिपत्तिः, अर्थशब्दस्योत्तरपदलोपं कृत्वा तत्त्वा सम्यग्दृष्टिरुच्यते इति स्त्रीलिङ्गनिर्देशः । 'मुह वैचित्ये' मोहन मोहः-वितथग्राहः-अन्यथाप्ररूपणा, न मोह इत्यमोहःअवितथग्राह इत्यर्थः ॥३३०१॥ मिच्छत्तमलावगमो सोधी सम्भावता जिणाभिहितं । दसणमिह तग्गाहो' बोधी तच्चत्थसंबोधो ॥३३०२॥
मिच्छत्तमलावगमो इत्यादि । 'शुध शौचे' शोधनं शुद्धिर्वस्त्रादेर्मलापगमः, जीवस्यापि मिथ्यात्वमलापगमाच्छुद्धिः सम्यग्दर्शनम् । सत्-जिनाभिहितं प्रवचनम् , तस्य भावः [सद्भावः] सद्भावोऽस्यास्ति श्रद्धेयत्वेनेति "आ(अ)शादिभ्योऽच्" [५।२।१२७। पाणि०] ['अच्'] प्रत्ययः। सद्भावः-दर्शनम्-अभ्युपगमः-श्रद्धानं वा, अथवा सद्भावः परमार्थः जिनप्रवचनम् , तस्य ग्राहो दर्शनम्-जिनवचनमेवैकं परमार्थः, नान्यानि वचनानीति-सद्भावदर्शनं सम्यग्दर्शनम् । बोधनं बुद्धिः-इति औणादिक 'इन्'-तत्त्वार्थसम्बोध इत्यर्थः ॥३३०२॥
अव्विर्वरीतं अविवज्जओ मुदिहि ति सोभणा दिही। सम्मत्तणिरुत्ताई बच्चाणी हेवमातीणि ॥३३०३॥
अग्विवरीतं अविवज्जओ । विपर्ययेण पर्यायाणामन्यथाप्ररूपणं विपर्ययःविपरीतमित्यर्थः, तत्प्रतिषेधादविपर्ययः सम्यग्दर्शनम् । 'सु'शब्दः प्रशंसायां निपातः । शोभना दृष्टिः सुदृष्टिः । सम्यग्दर्शनमेव बहुभिः शब्दैरुक्तं निश्चयेनोक्तमित्यर्थः । सर्वदेशान्तरेषु शास्त्रान्तरेषु च प्रसिद्धा इत्यपरिगणनं पश्यन्नाह-सम्यग्दर्शनस्यैवमादीनि निरुक्तानि बहूनि वाच्यानीति ॥३३० ३॥
एमेव[२१७-द्वि०]सेससामाइयाण सम्बपरियायवयणाणं । वच्चाई णिरुत्ताई णिरुत्तसहत्थमग्गेणं ॥३३०४॥
'एमेव सेससामा० । लाघवार्थमतिदेशाख्यानम् । अनेनैव नैरुक्तशब्दार्थेन मार्गेण यथायोगमभ्यूह्यानि ॥३३०४॥
तथाऽपि सामायिकपर्यायनिर्वचनमाचार्यः प्रदर्शयति प्रस्तुतप्राधान्यख्यापनार्थम्१ सम्म को, सम्म हेत। २ बिहे त । ३ तंत। ४ तषण जे। ५ हित । ६ अविहे, 'विरी को। ७ तच्चा त । ८ "णिह एव जे । ९ एमेव सेसयाई-इति प्रती।