________________
नि० ६३१] कियत्कालमन्तरम् ? इति द्वारम् । ६३५
सामण्णं सुतगहणं ति । न विशेष्यते सम्यक्च्छ्रतं मिथ्याश्रुतमिति वा । . किं तर्हि ! सामान्यमक्षरश्रुतमात्रम् । अनन्तास्तत्प्रतिपतिता बहुतरत्वादनन्तगुणाः, इतरथा सम्यच्छ्रतविशेषपरिग्रहाः सम्यक्त्वप्रतिपतिताः श्रुतप्रतिपतिताश्च तुल्या एव, सम्यग्दर्शनप्रतिपत्त्यैव सम्यक्च्छ्रतं भवतीति ॥३२८६॥
अथ पूर्वप्रतिपन्नकेभ्यः सकाशात् प्रतिपतिताः कियन्तः ? इत्यल्पबहुत्वचिन्तायां गाथा
पडियपडिवण्णयाणं सहाणे समधियं जघण्णातो । सव्वत्थुक्कोसपदं पवज्जति जहण्णओ 'वेगो ॥ दारं ॥३२८७॥
पडियपडिवण्णयाणं । एवं वा ग्रन्थः-अथ पूर्वप्रपन्नप्रतिपतितानां जघन्योस्कृष्टाः कियन्तः? इत्यल्पादि स्वस्थाने स्वस्थाने प्रतिपन्नानाम् अयं (इदम्) जघन्यपदम् तस्मात् तत्प्रतिपतिता स्वस्थानात् उत्कृष्टपदे विशेषाधिकाः द्रष्टव्याः । अथ प्रतिपद्यमानकानामुत्कृष्टपदं पलितासंख्येयभागमात्रादि निर्दिष्टं जघन्यपदं तदुच्यते-पवज्जति जहण्णओ वेगो। सर्वत्र प्रतिपद्यते जघन्यत एकः, शेष द्यादि अजघन्योत्कृष्टपदमिति ॥३२८७॥ कति ? इति द्वारं गतम् ॥
अथैषामेव चतुर्णामन्तरद्वारम्-कियत् कालमन्तरम् ? इति । कालमणंतं तु सुते अद्धापरिअट्टओ ये देसूणो । आसातणब[२१६-द्वि०]हुलाणं उक्कोस अन्तरं होति ॥६३१॥३२८८॥ मिच्छमुतस्स वणस्सतिकालो सेसस्स सेससामण्णो । हीणं भिण्णमुहुर्त सव्वेसिमिहेगजीवस्स ॥३२८९॥ दारं ॥ ___ कालमणंतं तु सुते । मिच्छमुतस्स इत्यादि। मिथ्याश्रुतं प्रतीत्य श्रुत प्रतिपद्य तस्मात् प्रतिपतित उत्कर्षेण पुनः कियता कालेन मिथ्याश्रुतं प्रतिपत्स्यत इति ? साधारणवनस्पतिकालम् अन्तरं कृत्वा पुनरपि मिथ्याश्रुतमक्षरात्मकं प्रपत्स्यत इति मिथ्यात्वश्रुतस्य वनस्पतिकालोऽन्तरम् । शेषस्य सम्यक्च्छृतस्य शेषैः सम्यक्त्व-देशविरति-सर्वचरणैस्तुल्योऽन्तरकालः, सम्यग्दर्शनान्तरकाल एव पुद्गलपरिवर्तस्याई देशोनमिति सर्वेषाम्, पुनरेकजीवं प्राप्य भिन्नमुहूर्तमन्तरम्- अन्तर्मुहूर्तो भिन्न इति जघन्यतः ॥३२८८-८९॥ अन्तरद्वारं गतम् ॥
अथ अविरहितद्वारम्-कियन्तं कालमविरहेण एको वा द्वौ वा त्रयो वेत्यादि प्रतिपद्यन्ते१चेगो हे। २च को हे दी हा मत। ३ उ हाम। ४ लासेजे।
८०