________________
६४
विशेषावश्यकभाष्ये। नि० ६३०सति संखातीतत्ते । सम्यक्त्व-देशविरतिपूर्वप्रपन्नकानां सत्यप्यसंख्येयत्वे देशविरतिपूर्वप्रपन्नकाः स्तोकतराः । ततोऽसंख्ये यगुणाः सम्यग्दृष्टयः पूर्वप्रतिपन्नाः, तेभ्योऽप्यसंख्येयगुणाः सम्यग्दृष्टयः पूर्वप्रतिपन्नाः (°यः प्रतिपद्यमानकाः) । तेभ्योऽप्यसंख्येयगुणाः श्रुतसहिताः श्रुतपूर्वप्रतिपन्नका इत्यर्थः ॥३२८२॥ ___ कथं पुनस्ते असंख्येयगुणा इति ? तत्रोपपत्तिःमीसे पवज्जमाणा सुतस्स सेसपडिवण्णएहितो । संखातीतगुण चिय तदसंखगुणा सुतपवण्णा ॥३२८३॥
मीसे गाहा। ये श्रुतज्ञानस्य पूर्वप्रतिपन्नकास्ते मिश्रयितव्याः श्रुतस्यैव प्रतिपद्यमानकैस्तेऽपि श्रुतसहिता इति कृत्वा । अतः शेषप्रतिपन्नकेभ्यः सकाशात् श्रुतप्रतिपन्नका असंख्येयगुणा इति शक्यं प्रतिपत्तुम् ॥३२८३॥ इदं च सामान्य लक्षणं प्रत्येकम् - सहाणे सहाणे पुचपवण्णा पवज्जमाणेहिं । होति असंखेज्जगुणा संखेज्जगुणा चरित्तस्स ॥३२८४॥
सहाणे० गाहा । स्फुटार्था ॥३२८४॥ चरणपडिता अणंता तदसंखगुणा य देसविरतीतो । सम्मादसंखगुणिता ततो मुतातो अणंतगुणा ॥३२८५॥
अथ प्रतिपद्यमानक:(क)पूर्वप्रतिपन्नेभ्यः सकाशात् प्रतिपतिताः कियन्त इति ! तत्परिज्ञानाय-चरणचनिग्राणप्राहिणः)-चरणसहिताः स्तोका एव जीवाः, तत्प्रतिपतिताः सर्व एव शेषाः-इत्यनन्तगुणाः, देशविरतितः प्रतिपतिताः-ये देशविरतिं प्रतिपद्य पतिताः ते असंख्येयगुणाः, चरणप्रतिपन्नेभ्यो मनुष्येभ्यः सकाशादधिकाः, यत् तिर्यञ्चो देशविरतियोग्याः ते चासंख्येया इत्यसंख्येयगुणत्वं पूर्वेभ्यः । ततोऽप्यसंख्येयगुणाः सम्यग्दर्शनमात्रका देव-नारकाः, ततस्तत्प्रतिपतिता देशविरतिप्रतिपतितेभ्योऽसंख्येयगुणाः। सम्यग्दर्शनयोग्येभ्योऽपि मिथ्यादृष्टयोऽनन्तगुणाः भव्याश्चाभव्याश्च । तत्र सम्यग्दर्शनप्रतिपतिता भव्या एव केवलाः, श्रुतप्रतिपतिता अभव्या अपि, सामान्यमात्रश्रुतसङ्ग्रहात् ॥३२८५॥
तदर्थ गाथासामण्णं सुतगहणं ति तेण सव्वत्थ बहुतरा तम्मि । इधरा पति सम्ममुतं सम्मत्तसमा मुणेतव्वा ॥३२८६॥ १ सीसे जे । २ का वध त्रिय तिर्य इति प्रतौ ।