________________
नि० ५९५]
कुत्र ? इति द्वारम् । उत्सर्पिण्यां द्वयोरेव दुष्पमसुषमायां तीर्थप्रवृत्तिर्या(त्ति या)वत् सुषमदुष्षमाभाग इति द्वयोः कालयोर्नान्यत्र, नोत्सर्पिण्यवसर्पिणी देवकुरूत्तरकुरुषु, सुषमसुषमाप्रतिभागः । हरिवर्षरम्यकयोः सुषमाप्रतिभागः । हैमवतहैरण्यवतयोः सुषमदुष्षमाप्रतिभागः । एतेष्वकालेषु काललिङ्गाभावात् सम्यक्त्व-श्रुतसामायिकयोः प्रतिपत्तिः । महाविदेहे काललिङ्गसद्भावः कालश्चतुर्थः दुःषमासुषमाप्रतिभागः । तत्र चतुर्णामपि सामायिकानां प्रतिपत्तिः । यत्र पुनः कालप्रतिभागोऽपि नास्ति बाह्यद्वीपसमुद्रेषु असावकालः । अस्मिन् सर्वचरणवर्ज त्रयाणां सामायिकानां प्रतिपत्तिः, स्वयम्भुरमणमत्स्याः स्वयमेव देशविरतिं प्रतिपद्यन्त इति । एतस्मिन् काले संघ(ह)रणं प्राप्य स्वयं वा लब्धिसम्पन्नविद्यासामर्थ्यगमने सर्वचरणप्रतिपत्तिरपि । ॥३१९४-९५॥
॥ एवं कालानुगमः ॥ अथ गतिं प्रत्यनुगमःचतुसु वि गतीसु णियमा सम्मत्त-सुतस्स होति पडिवत्ती । मणुए होति विरती विरताविरती य तिरिएम ॥५९४॥३१९६॥दारं॥
चतुसु विगतीसु । गतिचतुष्टयेऽपि द्वयोः सम्यक्त्वश्रुतयोः प्रतिपत्तिः । तिर्यग्गतौ त्रयाणाम्, देशविरतिसम्भवात् । मनुजगतौ चतुर्णामपि सामायिकानां प्रतिपत्तिः॥३१९६॥
भवसिद्धिओ तु जीवो पडिवज्जति सो चतुण्हमण्णतरं । दारं । पडिसेधो पुण अस्सण्णिभीसए संण्णिपडिवज्जें ॥५९५॥३१९७॥
भवसिद्धिओ गाहा । भव्या भविष्यन्ती सिद्धिरस्येति भव्यसिद्धिः, जीवनाद् जीवः सायुष्कः प्रतिपद्यते चतुर्णामपि सामायिकानामन्यतममे(मदे)कं सम्यग्दर्शनं व्यवहारनयात्, निश्चयनयान्नैकं सम्भवति, द्वयोरवश्यं युगपत्प्रतिपत्तिः, इतरयोईयोरन्यतरम्(त्) । अतः एवं चान्यतमशब्दे प्रयोज्येऽन्यतरग्रहणं सूत्रे । अभव्ये प्रतिषेध एव ॥३१९७॥ 'पुण'सदाऽस्सण्णी सम्म-सुते होज्ज पुव्वपडिवण्णो । मीसो भवत्थकाले सम्मत्त-चरित्तपडिवण्णो ॥३१९८॥ दारं ॥
'पुनः'शब्दान्नोभव्यः नोअभव्यः मिश्रः सिद्धः । सोऽपि न प्रतिपद्यमानकः न पूर्वप्रतिपन्नः । अभव्यत्वं स्वभावादेव नास्ति सिद्धस्य, भव्यत्वं पुनरनुभूय तत्पर्यायविगमात् सिद्धपर्यायं प्राप्तः सन् नोभव्य उच्यते । एवंप्रकारः सर्वो मिश्रशब्दाभिधेयः। न केवलमभव्ये प्रतिषेधः किन्त्वन्यत्रापि असंज्ञिनि मिश्रे च सिद्धे प्रतिषेध एव ।
१ को प्रतौ नियुक्तिरूपेण नास्ति । २ य को है । ३ असं जे हे दी हा। . जो त । को प्रतौ नास्ति नियुक्तिरूपेण । ५ 'तम एक-इति प्रतौ । ६ हादस जे हे। ७ चारि हे।