________________
एतदुक्तमेव । शेषेष्वपि च नयेषु तेषां समवतारो यथासम्भवमित्यभिहितः । ते च न सन्त्येव द्रव्यार्थिक पर्यायार्थिकव्यतिरिक्ताः । कथमेतदिति ? यत उक्तम्"तित्थयरवयण संगहविसेसपत्थारमूलवागरणी ।
दव्वट्टिओ य पज्जवणयो य सेसा वियप्पा सिं” ॥ [सन्मतिप्रकरणप्र० कां० गा० २] ते चामी संग्रहादयो विकल्पाः समवतारणीयाः येष्वेवेत्येषु समवतरन्ति । ते द्वितयादस्मादन्ये [न] वक्तव्याः, तदूयते [तद्रूपास्ते], सत्यमेतत्, तथापि तु नामविशेषादन्यत्वमिह तेषाम् । ते चामीति अर्पितानर्पितनयश्च अथवा एतावेव तौ द्रव्यार्थिक- पर्यायार्थिको संज्ञामात्रभिन्नौ, तस्मादन्येऽभिधीयन्ते - द्रव्यास्तिकः, मातृका - पदास्तिकः, उत्पन्नास्तिकः, पर्यायास्तिकः इति । ज्ञाननयः क्रियानयश्च अथवा "सप्तनयशतान्यसंख्यातानि वा शतानि " [ ] इति आगमा [त् ] तेष्ववतारणीया यथासम्भवम्, परस्परतो वा तेषामेव संग्रहादीनामवतारः । यथोक्तम् -
“पञ्चानामेकस्मिन्नवरोधोऽन्वर्थपरिणतो (तौ) षण्णाम् ।
संज्ञान्तरे चतुर्णां वाङ्गविशेषे त्रयाणां तु ॥
प्रत्युत्पन्ने षण्णां शब्दस्त्वेवार्थनिश्चितद्वन्द्वः ।
संज्ञान्तरेषूपात्तस्य पश्चिमस्तद्गतसमासः” ॥ ४३१३॥ [ ] इति ।
व्वद्वियस्स दव्वं वत्युं पज्जवणयस्स पज्जायो । अम्पितमतं विसेसो सामण्णमणप्पितणयस्स ॥ ४३१४॥
दब्वट्ठियस्स दव्वं वत्युं । द्रव्यार्थिकस्य नयस्य द्रव्यं सामान्यं वस्तु, अन्यद् अवस्तु । पर्यायार्थिकनयस्य तु पर्यायो वस्तु । एतद्भावितमेव । अर्पितनयस्य म विशेष एव, अनर्पितनयस्य सामान्यमेव । अर्पितमुपनीतं विवक्षितं विशेषितमित्यर्थः । तद्विपरीतमनर्पितम् । अथ चैतन्नयषट्कमपि द्वेषा-व्यवहारनयो निश्चयनयस्ये[श्चे]ति द्विती(त) ये संगृहीतम् ॥४३१४॥
तत्र
लोकव्ववहारपरो ववहारो भगति कालओ भमरो । परमत्थपरो मण्णति णेच्छइओ पंचवण्णोति ॥ ४३१५॥