________________
नि० ७३३]
नयानुयोगद्वारविचारः ।
८५९
अथागमंग चिय इत्यादि । ते चार्थानुगमाङ्गमिति अर्थव्याख्याने यथासम्भवमभिहिताः । तथापि प्रस्तुत चतुर्थद्वाराऽशून्यार्थमुन्नेष्ये इत्याचार्यः प्रथयति ॥ ४३११॥
सामण्णमध विसेसो पच्चुप्पण्णं च भावमेत्तं च । पतिसद्दं च जघत्थं च वयणमिह संगहातीणं ॥ ४३१२॥
सामण्णमध विसेसो । 'माङ् [ मा]ने' | मानमिति परिच्छेदः, सदृशं मानं समानम्, सह मानेन वा समानम् । समानस्य भाव इति भावे घञ् [ध्यञ्] कर्तरि षष्ठीं कृत्वा यदयम् [अस्य ] समानो भवति - समानभवनं सामान्यं वचनं सङ्ग्रहनयस्य सर्वविकल्पातीतं भवनमात्रम् 'अस्ति' इति । 'शिष असर्वोपयोगे 'विपूर्वोऽतिशये । अतिशयेनासर्वोपयोगः सामान्यप्रतिपक्षेण विशेषव्यवच्छेदात् यथा विवक्षितमर्पितं वस्तु विशेष एवावतिष्ठत इति व्यवहारस्य वचनम् 'त[3]त् प्राबल्ये' 'पत (द) गतौ' ऊर्ध्वं पत (द)नमुत्पन्नम् - आविर्भावरूपत्वाद् वर्त्तमानम् । उत्पन्नमुत्पन्नं प्रति प्रत्यु[[पैं]न्नं वचनं ऋजुसूत्रस्वातीतानागतयोरभावात् । भवनं भूतिर्भावः बाह्योऽभ्यन्तरश्च नाम - स्थापना-द्रव्यभिन्नलिङ्ग - वाक्षे (कुचे )ष्टाकरणात् भावयुक्तवाची शब्द इति भावमात्रं वचनं शब्दस्य । 'शप आक्रोशे' । शपनं शब्दः । शब्दं प्रति वर्त्तत इति प्रतिशब्दम्, शब्दभेदेऽर्थभेदादुक्तमात्रार्थसमभिरोही समभिरूढ इति प्रतिशब्दं समभिरूढस्य वचनम् । अर्यतेऽसावर्थ इति यो योऽर्थो यथार्थ निश्चयवचनमेवंभूतस्य । 'संग्रहादीनाम्' इति । नैगमनयस्योभयवक्तव्यसङ्ग्राहिणः परस्परभिन्नार्थत्वात् नयत्वं प्रत्याख्यातमिति षण्णामेव संग्रहः । एवं शब्दार्थमात्रमभिहितम्, विस्तर उपोद्घातान्तर्गत उक्त एवेति न विस्ती - र्यते॥४३१२॥
एताण समोतारो दव्चट्ठिय-पज्जवट्टियदुगम्मि ।
सेसेसु य संभवतो ताणं च परोप्परं कज्जो ॥ ४३१३॥
एताण समोतारो । एतेषां समवतारः प्रायेण द्रव्यार्थिक-पर्यायार्थिकनयद्वये,
१ नाम्नः 'घन्' प्रत्ययो न भवति किन्तु भावे 'ष्यन्' प्रत्ययो भवति - ५।१।१२४ पाणि० ।
१०८