________________
८५८ विशेषावश्यकभाष्ये
[नि० ७२९भदन्त ! सामायिकम्' इति सावद्ययोगनिवृत्तिरुच्यते, तस्य व्यवसृजामि शब्दप्रयोगे वैपरीत्यमापद्यते, तन्न, यस्मात् मांसादिविरमणक्रियानन्तरं 'व्यवसृजामि' इति प्रयुक्ते तद्विपक्षत्यागो मांसभक्षणनिवृत्तिरभिधीयते, एवं सामायिकानन्तरमपि प्रयुक्ते 'व्यवसृजामि' शब्दे तद्विपक्षत्यागोऽवगंस्यते । स च तद्विपक्षसुगम एव ॥४३०५-६॥
सम्मत्तातिमयं तं मिच्छत्तादीणि तव्विवक्खोऽयं । ताण विसग्गो गम्मति पभासिते वोसिरामि त्ति ॥४३०७॥
सम्मत्तातिमयं। स्फुटार्था ॥४३०७॥
अथवा 'णिन्दामि' इत्यादिबहुशब्दः प्रयोगः साभिप्रायः-दशविधप्रायश्चित्तसङ्ग्रहार्थ इति । तत इयं(द) गाथायुगलम् -
अहवाऽतिच्छियसावज्जजोगपच्छित्तसंगहत्थाय । संखेवतोऽभिधाण णिन्दामिच्चादिसुत्तम्मि ॥४३०८॥ णिन्दागरहग्गहणादालोयपडिक्कमोभयग्गवणं । होति विवेगादीणं छेतंताणं विसग्गातो ॥४३०९॥
अहवाऽतिच्छियसावज्जजोग। णिन्दागरहग्गहणा० । तत्र निन्दा-गर्हाग्रहणादायं प्रायश्चित्तत्रयं संगृहीतम्-आलोचनम्, प्रतिक्रमणम् , तदुभयमिति । 'व्यवसृजामि' इत्यनेन विवेकादीनां छेदान्तानां ग्रहणं कृतं भवति ॥४३०८-९॥
एवं मुत्ताणुगमो मुत्तण्णासो सुतत्थजुत्ती य। भणिता णयाणुयोगद्दारावसरोऽधुणा ते य ॥४३१०॥
एवं मुत्ताणुगमो हत्यादि । एवमनेन प्रपञ्चेन सूत्रार्थस्पर्शनात् सूत्रस्पर्शनियुक्तिः समाप्ता ॥४३१०॥
____ एषा च सूत्रानुगमर्विकेति सोऽप्युक्तः । सूत्रानुगमश्च निक्षेपोपोद्घातानुस्यूत इति निर्युक्त्यनुगमोऽपि समापितः । निर्युक्त्यनुगम-सूत्रानुगमाभ्यां द्वाभ्यां भेदाभ्यां अनुगमद्वारमुपवर्णितं तृतीयम् । तदनन्तरं चतुर्थस्य नयानुयोगद्वारस्यावसर इति । ते च नया अधुनोच्यन्ते
अत्थाणुगमगं चिय तेण जधासंभवं तहि चेव । • भणिता तधावि पत्थुतदारामुण्णत्थमुण्णेहं ॥४३११॥
१ बहवः शब्दा यस्मिन्' इति एतादृशः प्रयोग इति बोध्यः । अथवा 'बहुशब्दप्रयोग' इत्येवं संशोधने तत्पुरुष एव । २ विहाणं को हेत। ३ लोयणपडि जे । १ 'तदेवं व्याख्यात सामायिकसूत्रम् । तदपाख्याने चावसितोऽनुगमः' इति हे मुं पुस्तके पृ० १३.१ ।