________________
विशेषावश्यकभाष्ये
नि०७२९जावदयं परिमाणे मज्जाताएऽवधारणे चेति । जावज्जीवं जीवणपरिमाणं जत्तियं मे त्ति ॥४२४२॥
. परभवजीतमधिकतं । मनुष्य एव संयतो भवतीति नरभवजीवितमधिकृतम् । स मनुष्यः एवं प्रतिजानीति(ते)-यावदहं जीवामि तावत् सावधं योगं प्रत्याख्या. मीति । यावच्छब्दोऽयं परिमाणा(णे) मर्यादायामवधारणे च द्रष्टव्यः । तत्र परिमाणे तावत् वचनं यावन्मम जीवितपरिमाणं तावत् प्रत्याख्यानमिति । मर्यादा-अवधारणयोरपि वचने ॥४२४१-४२॥
जावज्जीवमिहारेण मरणमज्जाततो ण तत्कालं । अवधारणे वि जावज्जीवणमेवेह ण तु परतो ॥४२४३॥
जावज्जीवमिहा० । यावज्जोवमी(मि)ति मरणमर्यादाया आरात् , न तत्कालम् न मरणकालमात्रम् । 'एव' इति अवधारणेऽपि-यावज्जीवनमेव तावत् प्रत्याख्यानम् , न तस्मात् परत इत्यर्थः ॥४२४३॥
एवमपि 'यावज्जीवम्' इति सूत्रेऽभिधातव्यम् , किमर्थ 'या(जा)वज्जीवाय' इति भण्यते ? तदर्थम्जावज्जीवं पत्ते जावज्जीवाइ लिंगवच्चासो । भावप्पच्चयतो वा जा जावज्जीवता ताए ॥४२४४॥ जावज्जीवतया इति जावज्जीवाय वण्णलोवातो । जावज्जीवो जीसे जावज्जीवाएं वा सा तु ॥४२४५॥ का पुण सा संबज्झति[२७९-०]पच्चक्खाणकिरिया तया सव्वं । जावज्जीवाए ई पच्चक्खामि ति सावज्जं ॥४२४६॥
जावज्जीवं पत्ते । सत्यमेवम् , तथापि तु प्राकृते लिङ्गव्यत्यासो लाक्षणिक एव । अथवा 'यावज्जीवम्' इति अव्ययीभावसमासे-"यावदवधारणे"[२।१८।पाणि०] इत्यनेन निवृत्ते, भावप्रत्ययः उत्पादितः-यावज्जीवं भावः, षष्ठ्याः "अव्ययादाप्सुय (पः)" [२।४।८२।पाणि०] इति सुप्लुक्, "तस्य भावस्त्व-तलौ" [५।१।११९।पाणि०] इति तलि स्त्रीलिङ्गता-यावज्जीवतया । तत्र अलाक्षणिकवर्णपदलोपात् जावज्जीवाय इति सिद्धम् । अथवा प्रत्याख्यानक्रिया अन्यपदार्थ इति तामभिसमीक्ष्य समासो बहुव्रीहि(हिः)-यावज्जीवो यस्या सा यावज्जीवा ॥४२४४ ४६॥
जीवणमधवा जीवा जावज्जीवा पुरा व सा णेया । ताए पायतवयणे आवज्जीवाए ततिएयं ॥४२४७॥ १ स एवं मनुष्यः त। २ प्रयोगे निष्पन्ने सति इति भाशयः ।