________________
८४०
'विशेषावश्यकभाष्ये [नि० ७२७कथं धत्तमिति ? उच्यते, प्राकृते देशीयपदस्याविरुद्धत्वात् न दोषः । अथवा 'धत्त' इति रिडि)त्थवदव्युत्पन्न एव यदृच्छाशब्दः । अथवा सर्व दधातीति 'सर्वध[म् ] निरवशेषवचनम् । सर्वधम् आत्तमागृहीतं यस्यां विवक्षायां सा सर्वध(धा)त्ता । एवमपि निष्ठापूर्वनिपातः ! "जातिकालसुखादिभ्यः परवचनम् [२।२।३६॥ पाणि० सू० वा०] इति परनिपात एव । अथवा सर्वधि(धे)न आत्ता सर्वधात्ता तया यत् सर्व तत् सर्वधातासर्वम् ॥४२१७॥ ___अत्र चोद्यते-द्रव्यसर्वस्य, भादेस(श)सर्वस्य, निरवशेषसर्वस्य, सर्वधात्ता सर्वस्य च न कश्चिद् विशेषः इति पुनरुक्तत्वम् । तत्परिहाराय
अध दव्वसव्वमे गदव्याधारन्ति भिण्णमण्णेहिं । एगाणेगाधारोवयारभेतेण चादेसं ॥४२१८॥
अध दव्वसव्वमित्यादि । यद् द्रव्यसर्वः तदेकद्रव्याधारं देशविशेषकल्पनया व्यपदिश्यते इति उत्तरेभ्यो भिद्यते । आदेशसर्वं तु एकानेकद्रव्याधारमुपचारप्राधान्यमात्रनिर्देशात् पूर्वस्मादुत्तराभ्यां च भिद्यते ॥४२१८॥ .
भिण्णमसेस जमिहेगजातिविसयं ति सब्वधत्तातो। भिण्णा य सव्वधत्ता सवाधार ति सव्वेहि ॥४२१९॥ दारं ।
भिण्णमसेसं । निरवशेषसर्व तु सकलैकजातिविषयमिति पूर्वेभ्यः उत्तराच्च भिद्यते । सर्वधात्तासर्वं तु सर्वो(वा)धारवा[त् ] सर्वेभ्योऽपि पूर्वेभ्यो भिद्यते ॥४२१९॥
अथ भावसर्व निरूप्यमिति-- कम्मोदयस्स भावो सव्वो से मुभोऽमुभो य ओदइभो । मोहोवसमसभावो सवो उवसामिओ भावो ॥४२२०॥ ___ कम्मोदयस्स भावो इत्यादि । औदयिको भावः सर्व एव द्विविधःशुभोऽशुभश्च । सर्वोऽसौ कर्मोदयादेव न क्षयोपशमादिभ्य इति भावसर्वम् । तथा मोहनीयकर्मोपशमस्वभावः सर्व ओ(औ)पशमिक इति ॥४२२०॥
कम्मक्खयस्स भावो खयिो सव्वो य मीसओ मीसो । अध सव्वदचपरिणतिरुवो परिणामिओ भावो ॥४२२१॥
१ सर्वध+आक्ता=सर्वधात्ता इत्येष बहुव्रीहिसमासे प्रयोगः संस्कृतभाषायां साधुः, प्राकृते तु 'धात्ता' इत्यस्य माद्यस्य आकारस्य हस्वत्वे 'धत्ता' इति साधुः । २ “जातिकालसुखादिभ्यः परा निष्ठा वक्तव्या" इत्येवरूपं वार्तिकं विद्यते । ३ एष प्रयोगः तृतीयातदुरुषसमासे । १ मेगं दव्वा हेत। ५ सम्वेसि हेत। ६ असुहो सुहो य को हेत। ७ सम्वो