________________
नि० ७२६]
सामायिकपदनिरूपणा । अर्थानां वाचकाः शब्दाः याथात्म्यं तेषु चिन्तयेत्"[ ]तस्मादेवं नयाश्रयणात् सर्वमविरुद्धं लक्षणमिति । सम्यगायो वा समायः तस्य सामायिकम् । अथवा समस्य भावः साम्यम् , साम्यस्यायः साम्यायः, तस्य सामायिकमिति ॥४२०८॥
अधवा णिरुत्तविधिणा सामं सम्मं समं च जं तस्स । इकमप्पए पवेसणमेतं सामाइयं णेयं ॥४२०९॥
अधवा णिरुत्तविधिणा । अथवा नैरुक्केन विधिना अप्यक्षरसामान्येन ब्रूयात् , न त्वेवं न ब्रूयादिनि । देशीपदे कापि 'ए(इ)कं' गृहमुच्यते, तेन साम्नः इक(क), नैरुक्तं निपातनात् । यद्यल्लक्षणेनानुप[प]न्नं तत् सर्व निपातनात् सिद्धमिति । साम्नो मकारस्य 'आय' आदेशः-सामायिकम् । सम्यमि(गि)ति निपातनस्य वा(गा)दिलोपात् आयादेशाच्च अथवा समशब्दस्य आय आदेशः, समस्य इक(क) गृहं प्रवेश(न)मित्यर्थः, निपातनात् सामायिकम् । यत् तस्यात्मनि प्रवेशनं तत् सामायिकमिति । एवं बहुधा नेयम् । 'अनन्ता गमाः, अनन्ताः पर्यवाः एकैकस्य सूत्रस्य' इति ज्ञापितं भवति एवं शब्द रूपसिद्धौ कृतायाम् । अर्थकथनं पर्यायशब्दैक्यिान्तरेण चेति पूर्व पर्यायशब्दा उक्ताः
"सामाइयं समतियं सम्मावातो समास संखेवो ।
भणवजं च परिण्णा पच्चक्खाणे य ते अटु" (नियुकिगाथा-६४२ पृ. ६३८ प्रस्तुतभागे] ॥४२०९॥
इदानीं वाक्यान्तरेणार्थनिरूपणम् - किं पुण तं सामइयं ति ? सवसावज्जजोगविरति त्ति । सियते स तेण सव्वो तं सव्वं कतिविधं सव्वं ॥४२१०॥
१ भाष्यमूलगाथायां तु 'इकं अप्पए पवेसणं'-(इकम् सामायिककर्तः भारमनि प्रवेशनम् ) इत्येवम् ‘इक' शब्दस्य अर्थ निरूपणं कृतम् । अयं वृत्तिकारः 'इकं गृह प्रवेशनम्' एति सूचयति । २ 'सामन्' इत्यत्र केवलम् मकारस्य 'आय' आदेशे कृते 'सा+आय+न्' इत्येव स्यात् ततश्च 'सामायिक' पदे न सेत्स्यति परन्तु 'सामन्' इत्यस्य अन्त्यस्य 'अन्' अंशस्य 'आय' आदेशे अर्थात् साम्+अन् । ततः 'अन्' इत्यस्य 'आय' आदेशे साम्+आय-सामाय । एवं जाते 'सामाय' पदद्वारा सामायिकपदसिद्धिः स्यात् । ३ "भत्र 'सम्यग्'शब्दस्य गकारस्य तथा 'म्य' स्थितस्य अकारस्य लोपो बोध्यः, ततः 'सम्य्' इत्यस्य अन्त्यस्य व्यञ्जनान्तयकारस्य 'माय' आदेशो विधेयः। ततः भादिसकारस्य दीर्घत्वे 'सामाय' शब्दे सिद्धे पश्चात् तेन सह 'इक'शब्दस्य संबन्धे 'सामायिक'पदसिद्धिः । तुलनीयमत्र मलधारिविवरणम् पृ० १३१४ गा० ३१८३ । १ अत्र 'सम'शब्दस्य 'आय' आदेशे तु 'सामायिक' पदं कथमपि न सिध्येत् , किन्तु 'सम'शब्दस्य अन्त्यस्वरस्य भकारस्य 'माय'भादेशो विधेयः अत्रापि "समशब्दात् अयागमे" इत्यादिकं मलधारिविवरणं पूर्वोक्कमेव द्रष्टव्यम् । ५ 'तस्य 'सम'शब्दार्थरूपरागद्वषमाध्यस्थ्यस्य सामायिकानुष्ठानमाचरतः आत्मनि' इति आशयः ।