________________
विशेषावश्यकभाष्ये
[नि० ७२६
वा, कथं उभयवृद्धिरिति ! ननु चाष्टौ व्याकरणानि श्रयन्ते, तत्र ऐन्द्रे व्याकरणे प्रतिपदपाठसिद्धरुभयपदवृद्धिर्नास्त्येत्र सामायिकशब्दवत् । एवं तयन्येषु व्याकरणेषु उभयपदवृद्धिरियमिति शिष्टप्रयोगादनुमीयते। शिष्टप्रयोगस्य वा परिमाणं पाणिनीयैरेवाख्यायते- "समस्त(सप्तो)द्वीपो लोकः, चत्वारो वेदाः, सरहस्साः(स्याः) शब्दप्रयोगाधाराः, तत्रौत्रो)पलब्धौ यत्नः क्रियतामिति यत्र गम्यमेतत् । अस्माकमपि चतुर्दश पूर्वाणि सर्वाक्षरसन्निपातसंग्राहीणि । तत्रायं भगवद्भिरनुयोगधरैदृष्ट इति प्ररूपितम(म्)।
न]याश्च नैगमादयः सप्त प्रसिद्धाः स्वविषयव्यापारनियताः परविषयोन्मूलनाशक्ताः । तेषामाधास्त्रयो द्रव्यार्थप्रधानाः, ऋजुसूत्रश्चतुर्थः पर्यायार्थः(थ)प्रधानः, एते चत्वारोऽप्यर्थनयाः अर्थ प्रधानीकृत्य प्रवृत्ताः । शब्दश्चार्थस्यैव प्रतिपादनोपाय इति न तत्र यत्नः तद्यथा हस्तसंज्ञादिभिः पाणिविहारैरङ्गुलिस्फोटैरिङ्गितैनि मिसितेश्चार्थप्रतिपादनं कर्तव्यमित्यर्थः प्रधान(नः) तेषाम् । य एवार्थ प्रत्याययति स एव साधुशब्दः, तदनुगुणं च लक्षणमपि प्रणीयते । "दृष्टा विधि छन्दसि"[ ]इति वचनात् , पृषोदरादिपाठाश्च पाणिनीयैरत एवाभ्युपगम्यन्ते । सर्वनयात्मकत्वात् सम्यक्त्वादस्य व्याकरणेऽपि किञ्चित् सूत्रं द्रव्यनयमङ्गीकृत्योक्तं सामान्यद्रव्यमिति । किञ्चित् पर्यायनयमङ्गीकृत्योक्तं 'भेदाः पर्यायाः' इति । तथा च-पठन्ति-"सर्वपार्थ(प)दं हीदं शास्त्रं नैकेन नयप्रस्थानेन निर्वोढुं शक्यम्" [ ] इति । नानानयाश्रयाणां शब्दनयानां तु त्रयाणां शब्दः प्रधानेनार्थः । तेषां च यथा शब्दोऽवस्थितः प्रकृतिप्रत्ययादिनार्थेन तथा अर्थप्रतिपत्तिरिति ।
'दृष्टादृष्टफलाः सर्वाः क्रिया अर्थनिबन्धनाः ।।
१ "यद् यद् लक्षणेन भनुपपन्नं तत् सर्व निपातनात् सिद्धम् , एवं सामायिक क्षेयम्"कोटया. वृ० मु. पृ.९५४ । “समय एव स्वार्थिक 'इकम्' प्रत्ययोपादाना उभयत्र वृद्धिभावाच्च सामायिकम्"-मबधा० हे. वृ० मु० पृ. १३१४ । २ व्याकरणमहाभाष्ये (अ० १ पा. १ आहि. १ 'सर्वे देशान्तरे' इत्यस्य भाष्ये-निर्णय. प्रका. पृ. ६४) निर्दिष्टोऽयमुल्लेख एवम्"उपलब्धी यमः क्रियताम् । महान् शब्दस्य प्रयोगविषयः । सप्तद्वीपा वसुमती, त्रयो लोकाः, चत्वारो वेदाः साझाः सरहस्या बहुधा मिना एकशतमध्वर्युशाखाः, सहस्रवर्मा सामवेदः" इत्यादितः एतावान् शब्दस्य प्रयोगविषयः" इति वचनपर्यन्तम् विस्तीर्णोष्यमुल्लेखः । ३ भत्र 'निमेषितैः' इति पदं कदाचन सुसंगतम् अथवा निमित्तः इति पाठो योग्यः कदाचन ततथ
जितेनिषितैश्चार्य अथवा हितैनिमितवार्थः' इति पाठो भवेत् । १ "छन्दसि तु यथादृष्टम्।' जैमि. सूत्रपाठे ९४३।११। तुलनोयमेतत् सूत्रम् ।