________________
नि. ७२६] भदन्तस्य निरुक्तम् ।
८३१ 'अम रोगे' वा इत्यादि । अमनमन्तः रोगः - 'रुजो भङ्गे' भङ्गः-विनाश इत्यर्थः । यस्माद् भवस्य भयस्य वा अन् (अन्तो) भङ्गो भवति तस्मादाचार्यात् ततोऽसौ भवान्तः भयान्तो वा भण्यते ॥४१८०॥
एत्य भदन्तादीणं पायतवायरणलक्खणगतीय । संभवतो पत्तेयं द-य-ग-वगारादिलोवातो ॥४१८१॥
एत्थ भदन्तादीणं इत्यादि । अत्र 'भदन्त'आदीनां प्राकृतव्याकरणलक्षणगत्या सम्भवतः प्रत्येकं द-य--व-भ-रादिलोपात् भदन्त(भन्ते)शब्दो भवति । तत्र चोक्तम्
"वच्चंति क-ग-त-द-य-वा लोवं अत्थं च सिं वहति सरा ।
ख-घ-थ-ध-भा उण हत्तं उवेंति अत्थं अमुंचता" ॥ [भरतनाट्यशास्त्र अध्याय १७ गा० ७] ।।४१८१।।
१ 'भवान्त-भयान्त-भदन्त-भजन्त-भान्त-भ्रान्त-भ्राजन्त-भगवन्त' इत्येवरूपेभ्यः भनेकेभ्यः शब्देभ्यः भन्ते' अथवा 'भंते' पदस्य निष्पत्तिः प्रदश्यते-तद्यथा
१ भवान्त इत्यस्य बलोपे भ+भान्त, ततः आकारस्य इस्वत्वे भ+अन्त, ततः 'भ'इत्यस्य
अकारलोपे भ+अन्तम्भन्त इति । २ भयान्त इत्यस्य यलोपे भ+आन्त, ततः पूर्ववत् साधने भन्त इति । ३ भदन्त इत्यस्य दलोपे भ+अन्त, ततः पूर्ववत् साधने भन्त इति । १ भजन्त इत्यस्य जलोपे भ+अन्त, ततः पूर्ववत् साधने भन्त इति । ५ भान्त इत्यत्र तु 'भा' इत्यस्य हस्वत्वे भन्त इति । ६ भ्रान्त इत्यस्य '' लोपे पश्चात् भा इत्यस्य हस्वत्वे भन्त इति ।
७ भ्राजन्त इत्यस्य रस्य तथा जस्य लोपे भा+अन्त, ततः हस्व-लोपौ पूर्ववत् ततः भन्त इति ।
८ भगवन्त इत्यस्य गलोपे तथा वलोपे भ+अअन्त, ततः 'भ' इत्यस्य अकारलोपे तथा 'अनन्त' इत्यस्य आद्यस्य अकारस्य लोपे भ्+अन्त भन्त इति । अस्माद् भन्त' इति पदात् मागधी भाषायाम् पुंसि प्रथमाया एश्वचने 'ए'प्रत्यये संलग्ने भन्त+ए भन्त+ए भन्ते अथवा भंते इति संबोधनस्यापि एकवचनम् । एतद्विषये मलधा० हे. वृ० मु० पृ. १३न्ट' गा० ३४५५-३४५६ तवृत्तिश्च च विलोकनीयम् । २ इयं गाथा भरतनाटयशाने लभ्यते परन्तु तत्र सर्वथा अशुद्धा। त प्रतौ एषा गाथा अशुद्धिबहुला एवम्
वच्चंति भग-त-द-य वा लोवं अस्थं च सि वहन्ति सम । - च-घ-ह-सो घण हत्त उवेन्ति भत्थं अमुंचंता" ॥ त प्रति पृ०२६४ द्वि० । अस्या भरतनाट्यशास्त्रगाथाया मूलस्थलम् आगमप्रभाकर श्रीमुनिपुण्यविजयैः सूचितम् ।