________________
विशवकभाष्ये
[नि० ७२६तं तच्चं णेवाणं कारणकज्जोवयारतो वा वि । तस्साणमणसद्दो सहत्थो अधव गच्चत्यो ॥४१६६॥
तं तच्चं णेवाणं इत्यादि । तद् आरोग्य तत्त्वं परमार्थतो निर्वाणम् , कारण(णे) कार्योपचाराद्वा सम्यग्दर्शनादि । तत् कल्यमणति यः स कल्याणः । 'अण रण' इत्यादि
तुसमूहः शब्दार्थः-शब्दकरणेऽर्थे-वर्तत इत्यर्थः । तस्य कल्यस्य साधनं कल्यस्य अणनं शब्दनं कल्यं कर्म, तत् अणति शब्दयति-"कर्मण्यण" [३।२।१। पाणि०]कल्याणः ॥४१६६॥
अथवा 'अण' घातुः-'अण रण वण गतौ' इत्यर्थः, तत्रापि एषा एव रूपसिद्धिः । त(ता)मेव स्फुटतरं गाथया दर्शयति
कल्लमणति त्ति गच्छति गमय[२७४-०]ति बुज्झति व बोधयति व ति। भणति भणावेति व जं तो कल्लाणो स चायरिओ ॥४१६७॥
कल्लमणति त्ति गच्छति इत्यादि । विवृत एवार्थः ॥४१६७॥
अथवा कलशब्दोऽन(न्य)स्तद्वयुत्पत्तिःअधवा 'कल'सहत्थो संखाणत्यो य तस्स कल्लं ति । सबै संखाणं वा जमण ति तेणं व कल्लाणो ॥४१६८॥
अधवा 'कल'सइत्यो इत्यादि। 'कल शब्द-संख्यानयोः' इति धातुः। कलनीयं कल्यम्-शब्दरूपं संख्यानं वा, तद् अणति, तेन वा अणतीति कल्याणः ॥४१६८॥
अथ सुखशब्दव्युत्पत्तिः'सु' पसंसत्यो खाणिदियाणि सुद्धन्दियो मुखोऽभिहितो । वस्सिन्दियो जमुत्तं अमुखो अजितिन्दियोऽभिमतो ॥४१६९॥
'म' पसंसत्थो इत्यादि । 'सु' प्रशंसायां निपातः, खानीन्द्रियाणि, शोभनानि खानि यस्य स सुखः-शुद्धेन्द्रिय इत्यर्थः । शुद्धानि प्रशस्तानि वश्यानीन्द्रियाणि यस्य । एतद्विपरीतः असुखः-अजितेन्द्रिय इत्यर्थः ॥४१६९॥
मुहमधवा जेव्वाणं तच्च सेसमुक्यारतोऽभिमतं । तस्साधणं गुरु त्ति य सुहमण्णे पाणसण्ण न ॥४१७०॥
मुहमधवा णेवाण । अथवा अन्यथा सुखशब्दः । सुखम् परमार्थतो निर्वाणं तत्त्वम्। शेष सांसारिक सुखमिवोपचारतः सुखम् । तस्योभयस्यापि सुखस्य साधनं गुरुराचार्यः, तस्मिन् सुखसाधने गुरौ सुखशब्दः, यथा अन्ने प्राणकारणे प्राणसंज्ञा तद्वदिति ॥४१७०॥
अथवा· , भिमश्रो को है।