________________
नि० ७२६] भदन्तस्य निरुक्तम् । भवतीति स्वभवनक्रियायाः कर्ता सम्पन्नः । स च भवन्नेन्ये(नाना)रूपेण भवतीति ऊर्ध्वकुण्डलोष्ठायतवृत्तग्रीवाः(वा)पृथ(थु)कुक्ष्यादिना स्वात्माऽव्यतिरिक्तेन करणेन भवतीति करणत्वमापन्नः । एवं नानाकारकतां यथक एव कुम्भो लभते तथा सामायिकाधपि कर्म कर्तृत्वं च विवक्षया प्रतिलप्स्यत इति ।:४१६४॥
सर्वस्यैव वस्तुन एवमात्मकत्वात् सुप्रतिपादकत्वं प्रकाशयन् दृष्टान्तान्तरमुपदर्शयति
जध वा णाणाणण्णो णाणी णियमोवयोगकालम्मि । एगो वि तिस्सभावो सामइयं कारको चेचं ॥४१६४॥ दारं ।
जध वा णाणाणण्णो इत्यादि । यथा ज्ञानादनन्यो जीवः ज्ञानी नियो जो)पयोगकाले यदात्मन्येवोपयुज्यते 'अहमात्मा' इति तदा उपयुज्यमान आत्मा कर्ता, तस्यात्मैव ज्ञेयो विषय इति आत्मा एवं कर्म, स चानन्यभूतेन श्रुतज्ञानादिना ज्ञानेन करणेन तमात्मानं जानातीति एकोऽपि आत्मपदार्थस्त्रिस्वभावः- कर्ता, कर्म, करणं चेति स्वभावत्रयम् । एवं सामायिकस्यापि कारको जीवविधा प्ररूपणीय इति ॥४१६४॥ करणे इति द्वारं गतम् ।।
अथ ‘भदन्त' इति सूत्रस्पर्शनम्भति कल्लाण-मुहत्थो धातू तस्स य भदंतसहोऽयं ।
स भदंतो कल्लाणो महो य कल्लं किलारोगं ॥४१६५।। ___ भति कल्लाण-मुहत्यो इत्यादि । 'भदिः कल्याणे सुखे च' अर्थद्वये धातुः "जविशिभ्यां झच्" [पाणि० उणा० तृ० पा० सू० ४१४] पौणादिकः प्रत्ययो दृष्टः, तं दृष्ट्वा प्रकृतिरूह्यते । 'भदि कल्याणे' इति अनुनासिकलोपश्चेति तस्यौणादिकविधानाद् 'भदन्त'शब्दोऽयं निष्पन्नो द्रष्टव्यः, भदन्तः कल्याणः सुखश्च । अथ कल्यं वि(कि)मुच्यते ! आरोग्यम् ॥४१६५।।
यओ को हे त. २ उणादिप्रकरणे जरन्त-विशन्त-हेमन्तप्रभृतयः शब्दाः साधिताः, तत्र 'भदन्त'शब्दस्तु न साधितः । स्थापि एतान् 'जरन्त'प्रमृतिकान् 'अन्त'प्रत्ययान्तान् शम्दान् दृष्टा अयं 'भदन्त'शब्दः तद्वत् साध्यते इति आशयः। ३ "भन्देन लोपश्च" "भदन्तः प्रबजितः" [पाणि• उणा० तृ. पा. सू. ११८]
.१०१