________________
८१६ विशेषावश्यकभाष्ये
[नि० ७२५णणु भणितमुवग्याते इत्यादि, तो किवेत्यादि गाथाद्वयम् । ततो(त उ). पोद्घाते केषु द्रव्येषु विषयभूतेषु तदुम(त्प)द्यते ? इह पुनः केषु द्रव्येषु स्थितस्य तल्लो(ल्ला)भ इति विशेषः । एवमपि सर्वव्येष्ववस्थानं कथम् ! उच्यते, जातिमात्रत्वात् । यस्मात् सर्वस्य आधेयस्य धर्मादीनि सर्वव्याण्याधारः, सर्वत्र तेषां सम्भवित्वात् ॥४११३-१४॥
विसयो व उवग्यातो केसु तीधं स एव हेतु ति । सद्धेयणेयकिरियाणिबन्धणं जेण सामइयं ॥४११५॥
विसयो व उवग्घातो इत्यादि । अथवोपोद्घाते सर्वद्रव्याणि विषयः सामायिकस्य, इह तान्येव सर्वव्याणि सामायिकस्य हेतुः, श्रद्धेयज्ञेयक्रियानिबन्धनत्वात् ।।४११५॥
अधवा कताकतातिसु कज्ज केणं कतं 'त्ति कत्त त्ति । केसु त्ति करणभावो ततियत्थे सत्तमि कातुं ॥४११६॥
अधवा कताकता. इत्यादि । अथवाऽन्यथा पुनरुक्तपरिहारः-कृताकृतादिगाथायां कृतमकृतं वा सामायिकं कार्य कर्म, कर्तुरीप्सिततमत्वात् । केन कृतमिति ? कर्तृप्रश्नः । केषु द्रव्येष्विति साधकतमप्रश्नः । प्राकृते तृतीयाबहुवचनं सप्तमीबहुवचनतुल्यम् तृतीया(यां) सप्तमी(मी) कृत्वा निर्देशः । केष्विति द्वारं गतम् ॥४११६॥
अथ कदा सामायिकमिति कालविशेषप्रश्नः, कदा असौ सामायिकस्य कारक इष्यते ! तत्र नयमार्गणायां नयतः--
उद्दिढे च्चिय णेगमणयस्स कत्ताऽणहिज्जमाणो वि । जं कारणमुद्देसो तम्मि य कज्जोवयारो ति ॥४११७।।
उद्दिढे च्चिय णेगमणयस्स इत्यादि । नैगमनयस्य सामान्यग्राहिणः उद्दिटु(ष्ट)मात्रे सामायिके गुरुणा शिष्योऽनधीयानोऽपि तात्क्रयाननुष्ठायी सन् सामायिकस्य कर्ता धनगमनप्रस्थितप्रस्थककर्तृवत् । यस्मादुद्देशोऽपि तस्य कारणम्, सामा. यिकस्य तस्मिन् स्वकरणे कार्योपचारः ॥४११७॥
संगह-ववहाराणं पच्चासण्णतरकारणतणतो । उदिवम्मि तदत्यं गुरुपामुळे समासीणो ॥४११८॥