________________
८१२ विशेषावश्यकभाष्ये
[नि० ७२५विवक्षया कृताकृतम् , कयाचित् क्रियमाणम् । न पुनः सर्वथा सर्वैः प्रकारैः किञ्चित् क्रियते, तादृशस्यासम्भवात् क्रियायोगाभाव एव ॥४०९७।।
एतद्विवक्षाचतुष्टयस्योदाहरणगाथारूवि त्ति कीरति कतो कुंभो संठाणसत्तितो अकतो । दोहि मि' कताकतो सो तस्समयं कज्जमाणो त्ति ॥४०९८॥
रूवि त्ति कीरति कतो इत्यादि । घटकार्य क्रियते-रूपित्वेन मृपिण्डावस्थायां पूर्वकृत एव कृतः क्रियन्ते(ते)। स एव मृदवस्थायाम् ऊर्ध्वादिसंस्थानेन जलयो(जला हरणशक्त्या च अनिष्पन्नः अकृतः सत्(न् ) क्रियते । द्वाभ्यामपि विवक्षाभ्यां रूपित्व-संस्थानशक्तिभ्यां कृताकृतः सन् क्रियते । तस्मिन्नेव क्रियासमये क्रियमाणः क्रियाविष्ठ(ष्टः) क्रियते ॥४०९८॥
पुचकतो तु घडतया परपज्जाएहि तदुभएहि च । कज्जंतो य पडतया ण कीरते सव्वधा कुंभो ॥४०९९॥
पुवकतो तु घडतया इत्यादि । यस्तु पूर्व कृतः पूर्वनिष्पन्नः स एव घटतया घटस्वपर्यायेण कृतत्वान्न क्रियते, परपर्यायैश्च पटकरणादिगतैरसम्बन्धाव(द)निष्पन्नत्वाद् अकृतः, अकृतत्वाच्च तदात्मभिन्नं क्रियते, तदुभयश्च स्वपर्यायैः परपर्यायैश्च उभयैर्विवक्षितः कृताकृतः सन्न क्रियते उभयरूपेण निष्पन्नानिष्पन्नत्वात् , तथा क्रियमाणश्च वर्तमानः क्रियाविष्टः पटतया सर्वात्मना न क्रियते । एवं सर्वथा सर्वैः प्रकारैः कुम्भो न क्रियते, कृताकृतादिचतुष्टयेऽपि विवक्षाप्रापितत्वात् ॥४०९९॥
अथवा अन्येन प्रकारेण कृताकृतत्वमुपवर्ण्यतेवोमाति णिच्च[२६९-द्वि०]तातो ण कीरते दबदार्य वा सव्वं । कीरति य कज्जमाणं समए सव्वं सपज्जयतो ॥४१००॥
वोमाति णिच्चतातो इत्यादि । यस्माद् द्रव्यार्थनयं प्रति सर्वे() व्योमादिआदिग्रहणाद् घट-विद्युत्कर्माद्यपि-नित्यम् , ततश्च न क्रियते । पर्यायनयं प्रति तु सर्व(व) व्योम-परमाणु-घट-विद्युत्कर्माऽपि प्रतिसमयं तथातथोत्पादात् क्रियमाणं क्रियते ॥४१००॥
एवं समयसद्भाव इति प्रदर्शयतिउप्पातद्वितिभंगरसभावतो इय कताकतं सव्वं । सामाइयं पि एवं उप्पादादिस्समावं ति ॥४१०१॥ १नि । २१ व