________________
नि० ७२५]
सामायिके करणद्वारम् 1
उप्पात -द्विति-भंगरसभावतो इत्यादि । यथा सर्व (र्वे) पदार्थों उत्पाद-स्थितिभङ्गस्वभावाः कृताकृताः, एवं सामायिकमिति उत्पादादिस्वभावमिति कृत्वा (ता) कृतं मन्तव्यम् ॥ ४१०१ ॥
अत्राह चोदक:
'दव्वमणत्थं तर पज्जयं तरविसेसंणादि जुज्जेज्ज । उपपातादिभावं तु सामइयं गुणो जम्हा ॥४१०२॥
दव्वमणत्थंतर पज्जयंतर० इत्यादि । द्रव्यं हि 'सर्वपर्यायद्रवणाद् द्रव्यम्' इति अनर्थान्तरभूत पर्यायान्तरगमनात् विगमनाच्च तत्तद्विशेषणान्तर सापेक्षितया युज्येतोत्पादादिस्वभावमिति वक्तुम्, सामायिकं तु द्रव्यस्य गुणः, तस्य गुणान्तराभावात् कथं विशेषणान्तर सम्बन्धा (न्धो) भवेत् येन तद् उत्पादादिस्वभावं भण्येतेति ? ॥ ४१०२॥ तस्मात् -
सो उप्पण्णो उप्पण्ण एव विगतो य विगत एवेह | किं समस्स जेणिह कताकता देसता होज्ज ॥ ४१०३ ॥
सो उपणो उप्पण्ण एवेत्यादि । सामायिकादिगुणः उत्पद्यमान उत्पन्नः उत्पन्न एव भवति नानुत्पन्नः, विगतो वा भवति, स्वरसभङ्गुरत्वाच्च विगतः सन्धिगत एव भवति, नाविगतः उत्पन्नो वा, सर्वात्मना तस्योत्पादात्, सर्वात्मना च तस्य विनाशात् न हि तस्य किश्चिच्छेषमस्ति यदन्येन विशेषणान्तरेण विशेष्येत । ततश्च तद्विशेषणान्तराभावात् कथमिव कृताकृताद्यादेशं प्राप्नुयात् ? द्रव्यं ननूक्तन्यायेन युज्यते ॥ ४१०३॥
अत्राचार्येण समाधीयते -
८१३
जं चिय दव्वाणष्णो पज्जाओ तं च विविधसन्भावं । तो सो वि तिरूवो च्चिय तत्तो य कताकतसभावो ॥४१०४ ॥
जं चिय दव्वाणष्णो पज्जाओ इत्यादि । यत एव द्रव्यादनन्यः पर्यायस्त्वया अभ्युपगम्यते, अत एवाsचोद्यमेतत् यस्माद् द्रव्यं त्रिविधम ( स ) द्भाव (वम् ) स्थित्यु - त्पाद व्ययैः, एवं सामायिकपर्यायोsपि स्थित्युत्पाद- व्ययत्रिविधस्वभावं (वः) । ततथ कृताकृतादिस्वभावोऽपि ॥४१०४ ॥
ज वा रुवन्तरतो विगमुप्पाते विख्वसामण्णं । णिच्च कताकतमतो रूवं परपज्जयातो वा ॥९४०५॥ १ मणु हे त । २ °सणेहिं त । ३ सामाई' हे ।