________________
नि० ७२५] सामायिके करणद्वारम् ।
८११ अत्यन्ताभावत्वेऽपि क्रियत एव, ततो नित्यक्रियादिदोषाः सर्वेऽपि सविशेषतरा वा वस्तुशून्ये तस्मिन् प्रतिषेधवचने । अथैतदोषसंस्पर्शपरिहारेण क्रियमाणो वर्तमानकाले 'क्रियते' इति कृतः प्रतिषेध उच्यते, तथापि स प्रतिषेधः सत्(न्)वा, असत्(न् )वा, सदसन् वा अभ्युपगम्येत ? चतुर्थपक्षासम्भवात् । सर्वथाऽपि पूर्वदोषप्रसङ्ग इति प्रतिषेधस्य करणं न सम्भवतीति करणाभावात् प्रतिषेध एव नास्ति । ततश्च प्रतिषेधस्याभावे केन प्रतिषिद्धं सामायिकम् ! इति अध्या(ध्य[क्ष])सिद्धसिद्धत्वात् प्रतिष्ठितम् ।।४०९४॥
अध कतमकतं ण कतं ण कज्जमाणं कतं तथा वि कतं । पडिसेधवयणमेतं तध सामयियं पि को दोसो ॥४०९५।।
अध कतमकतं इत्यादि । अथैवं भवतः प्रतिषेधवादिनोऽभिप्रायः-प्रतिषेधवचनं हि कृतं वा भवतु, अकृतं वा भवतु, क्रियमाणं वा भवतु, तथापि कृतं सर्वथा । तदेवमकृतमपि सम्प्रति प्रतिषेधवचनमस्माभिरुच्चार्यमाणत्वात् कृतमिति । एवं भवदभ्युपगमेनैव यदि सामायिकमपि कृताकृतादिभङ्गसम्भवप्राप्त क्रियते व्रतोच्चारणादिकाले, ततः को दोषः । इति तुल्याभ्युपगमतया वैतण्डिकपक्षहानिः ॥४०९५॥
तमिदानी कृताकृतादिभङ्गसम्भवमाचार्याः(यः) प्रविभागेन दर्शयन्नाहअकतमसुद्धणयाणं णिच्चत्तणतो णभं व सामइयं । मुद्धाण कतं घड इव कताकतं समयसब्भावो ॥४०९६॥
__ अकतमसद्धणयाणमित्यादि । अशुद्धनया द्रव्यार्थप्रधाना नैगम-सङग्रह-व्यवहाराः, तेषां मतेन अकृतं सामायिकम् . नित्यत्वात् , नभोवत्(नमस्वत्). द्रव्यार्थतः सर्व मेव वस्तु नित्यमिति पक्षधर्मत्वम् । शुद्धनयास्तु ऋजुसूत्रादयः । तेषां मतेन कृतं सामायिकम् , अनित्यत्वात् , घटवत् । पर्यायार्थतः सर्वमेवानित्यं कृतकं च वस्त्विति पक्षधर्मत्वम् । एवमेकान्ते भङ्गद्वयम् ||४०९६॥
अथ कृताकृतत्वमुभयरूपं स्याद्वादसमयसद्भावात् । तत् पुनरुभयरूपत्वं द्रव्यार्थपर्यायार्थनयविवक्षावशाद् भवति । तत्प्रदर्शनार्थमयं गाथाप्रपञ्चः--
कीरति कतमकतं वा कताकतं वेद कज्जमाणं वा ।। कज्जमिह विवक्खाए ण कीरते सव्वधा किंचि ॥४०९७॥
कीरति कतमकतं वा । इह कार्य कयाचिद् विविक्षसाया(विवक्षया) कृतं निष्पन्नं क्रियते, कदा(या)चिद् विवक्षा(क्षया) वा अकृतमनिष्पन्न क्रियते, कयाचिद्
१ 'सामायिकम्' इति शेषः ।
१०२