SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ विशेषावश्यकभाष्ये [नि०७२५अकतं पि णेच कोरइ इत्यादि । एवमपि सामायिकं न क्रियते, अकृतत्वात्-कृतं न भवतीति प्रसज्यप्रतिषेधात् अत्यन्ताभावात्-इत्यर्थः-खपुष्पवत् । अथ अकृतकत्वे(कृतत्वे)ऽपि अत्यन्ताभावत्वेऽपि क्रियते, एवं ततो नित्यक्रियादिदोषाः सर्वेऽपि सविशेषतरा वस्तुशून्ये तस्मिन्नभावे ॥४०९२॥ __ अथैतदोषसंस्पर्शपरिहारेण 'क्रियमाणं क्रियते' इत्यभ्युपगम्येत, ततःसदसदुभयदोसातो सव्वं कीरति ण कज्जमाणं पि । इय सव्वधा ण कीरति सामइयमतो कतो करणं ॥४०९३। सदसदुभयदोसातो इत्यादि । तत् क्रियमाणं वस्तु सद् वा, असद् वा परिकल्प्येत ! यदि सत् ततः पूर्वकृतत्वपक्षे(क्ष)दोषाः सर्वे प्रसजन्ति । अथ असं(सत्) ततः अकृतत्वपक्षना अभावविषया दोषाः प्रसजन्तीति सदसदुभयदोषसम्भवात् सदसदपि न भवतीति सर्वथा सर्वपक्षेष्वपि सामायिकस्य करणे न सम्भवतीति कुतः करणम् ? ततः सर्वथापि न क्रियते सामायिकमिति प्रतिषेध एव स्थितः ।।४०९३॥ अत्र प्रतिविधीयतेणणु सव्वधा ण कीरति पडिसिद्ध म्मि वि समाणमेवेदं । पडिसेधस्साभावे पडिसिद्ध केण सामइयं ॥४०९४।। __णणु सव्वधा ण कीरतीत्यादि । 'ननु' इति अभ्युपगमे । योऽयं प्रतिषेधः'सर्वथा सामायिकं न क्रियते' इति, ननु एतस्मिन् प्रतिषेधे समानमेवेदम् , यत् सामायिक भवता पर्यनुयुक्तं वैतण्डिकपक्षत्वात् । अयं प्रतिषेधः प्राक् प्रतिषेधवचनात् किं कृतः ! आहोश्विद् अकृतः ? यदि कृतः, ततः कृतत्वात् पूर्वमेव सद्भावादिदानी प्रतिषेधवचनकाले न क्रियते, कृतत्वात् चिरकृतघटवत् । अथ त्वन्मत्या कृतोऽप्ययं विशेषापेक्षया पुनः क्रियते, एवम् , ततः सततमपि । एवं नित्यं क्रियाप्रसङ्गः । कृतस्य च करणे पुनः कृतत्वमेव भवति नान्यदिति क्रियावैफल्यम् , पुनःक्रियाफलाभावात् । अथ न नाम फलं तथापि क्रियत एव, ततश्चो(श्चा)परिनिष्ठा क्रियायाः, क्रियोपरमकारणाभावात् । नित्यं च यत् क्रियते सर्वकालं तत् सर्वदा स्थितं नित्यं कूटस्थमविचालि तस्मिन् 'कृतम्' 'अकृतम्' 'क्रियमाणम्' इति व्यपदेशाभाव एव, निष्फलत्वात् । यद्येवं कृतत्वे प्रतिषेधस्य दोषप्रसङ्गस्ततोऽयम् 'अकृतः प्रतिषेधः' इत्यम्युपगम्यते, एवमपि पूर्ववत् सामायिकवदोषास्तत एव । तद्यथा-नायं प्रतिषेधः क्रियते, अकृतत्वात्प्रसज्यप्रतिषेधपक्षे नञ्-अत्यन्ताभावश्च, दृष्टान्तः सुकरः खपुष्पवत् । अथैवमकृतत्वेऽपि माहेत । २ °सेहम्मि त। .
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy