________________
८०९
नि० ७२५] सामायिके करणद्वारम्।
कताकतं केण कतं केसु व दवेसु कीरई वावि । काधे य कारओ णयतो करणं कतिविहं कथं वा ॥७२५॥४०८९॥
कताकतं इत्यादिः प्रश्नगाथा ॥४०८९॥
अस्या भाष्यम्किं कतमकतं कीरति किं चातो भणति सव्वधा दोसो । कतमिह सब्भावातो ण कोरते चिरकतघडो व्व ॥४०९०॥
कि कतमित्यादि । सामायिकस्य करणमिति क्रियां श्रुत्वा चोदक आक्षिपति-एतत् सामायिकं अस्याः क्रियायाः प्राक् किं कृतम् ! आहोश्चिद् अकृतम् ! किं चातः ? सर्वथाऽपि दोष इति । यदि कृतं ततः कृतत्वात् सद्भावादेव नेदानीं क्रियते, चिरकृतघटवत् ॥४०९०॥
णिच्चकिरियापसंगो किरियावेफल्लमपरिणिहा वा। अकत-कत-कज्जमाणव्ववदेसाभावतो णिच्चे ॥४०९१॥
णिच्चकिरियापसंगो इत्यादि । अथ कृतमपि क्रियते; तत्र विशेषान्तरापेक्षया, ततः सततमपिक्रियन्तां (ताम् )एवं नित्यक्रियाप्रसङ्गः, कृतस्य च करणे पुनः कृतत्वमेव भवतीति क्रियावैफल्यम् पुनःक्रियाफलाभावात् । अथ न नाम फलम् तथापि क्रिया प्रयुज्यते एव । एवमपरिनिष्ठा, क्रियोपरमकारणाभावात् । अपि च यन्नित्यं कूटस्थमविचालि तत् अकृतमिति वा कृतमिति वा क्रियमाणमिति वा न व्यपदिश्यते, निष्फलत्वात् ॥४०९१॥
यद्येवं कृतत्वे दोषास्ततः 'अकृतं सामायिकम्' इत्यभ्युपगमः, एवमपि दोन इति गाथा
अकतं पि णेव कीरति अच्चन्ताभाव[२६९-०]तो खपुप्फ व । पिच्चकिरियादिदोसा सविसेसतरा ये मुणम्मि ॥४०९२॥
१ एषा गाथा को पुस्तके (पृ. ९३४, भाष्यरूपेण मुद्रिता । हे वृत्तिकारः एतस्याः गाथायाः व्याख्याने प्रसजायातम् एवं निर्दिशति-"इह च 'करणे भए य मंते इत्यादिगाथायाः समनन्तरं 'नाम ठवणा दविए' इत्यादिका बहून्यो गाथा निर्युक्तौ दृश्यन्ते, ताश्च भाष्यकारेण प्रक्षेपरूपत्वादिना केनापि कारणेन प्रायो न लिखिताः, केवलं तदर्थ एव भाष्यगाथाभिलिखितः, तदत्र कारण स्वधियाऽभ्यूह्यमिति” । पृ. १२८१ । अयं च वृत्तिकारः 'अस्या भाष्यम्' इति तथा हे• वृत्तिकारः "इति नियुक्तिगाथासंक्षेपार्थः' इति निर्दिशन एनां १०८९ गाथां नियुक्तिगतां मन्यते । २ वया को हेत।३ व हे, वित सुत्तम्मित।