________________
८०६
विशेषावश्यकभाष्ये ।
पक्खतिधयो दुगुणिता दुरूवरहिता य सुकपक्खम्मि । सतहिते देवसियं तं चिय रूवाहियं रतिं ॥ ४०७५॥ सउणि चतुष्पद गागं किंथुग्धं च करणं थिरं चतुधा । बहुलचतुद्दसि [२६८- प्र० ]रतिं सउर्णि सेसं तियं कमसो ||४०७६ ॥
rade काकरणं इत्यादि । बवेत्यादि । पक्खेत्यादि । सउणीत्यादि । गाथाचतुष्टयं स्फुटार्थम् ॥४०७३-७६॥
अथ भावकरणम् -
भावस्स व भावेण वै भावे करणं व भावकरणं ति ।
तं जीवrsजीवाणं पज्जायविसेसतो बहुधा ॥ ४०७७॥
[नि० ७२४
भावस्स व भावेण व इत्यादि । भावकरणं क्रोधादेः, अजीवभावस्य वा वर्णादेः भावेन करणम् । अध्यवसायविशेषेण भावे वा करणम् औदयिकादौ । एतद् भावकरणं जीवाजीवविषयतया बहुधा ॥ ४०७७॥
अपरप्पयोगजं जं अजीवरूवातिपज्जयावत्थं ।
तमजीवभावकरणं तपज्जायप्पणावेक्खं ॥ ४०७८ ॥
अपरप्पयोगजं जं इत्यादि । परप्रयोगमन्तरेण परजीवद्रव्यस्य रूपादिपर्यायावस्थं तत्पर्यायापेक्षणाद् अजीवभावकरणम् अभ्रादेर्नानावर्णान्तरगमनम् ॥ ४०७८॥ को दव्ववीससाकरणतो विसेसो इमस्स गणु भणितं । te पज्जायावेक्खा दव्वद्वियणयमतं तं च ॥ ४०७९ ॥
को दव्ववीससाकरणतो इत्यादि । ननु च द्रव्यकरणमपि विस्रसाविषयमिदमेवोक्तम्, को न्वत्र भावकरणविशेष इति उच्यते, ननु विशेषितं ' तत्पर्यायार्पणापेक्षम्' इति । यथा इन्द्रधनुर्विचित्रवर्णपर्यायप्राधान्याद् वक्रता पर्यायप्राधान्याच्च तस्यैव विचित्रवर्णपर्यायस्य परिमण्डलपर्यायार्पणापरिवेशत्वं पर्यायापेक्षम्, तथा पर्यायार्पणविशेषात् पूर्वस्मिन् द्रव्यविससा करणे पुद्गलद्रव्यप्राधान्यम् द्रव्यार्थिकतयार्पणाद् इ[ति] विशेषः । एवमजीवभावकरणम् ॥ ४०७९॥
इह जीवभावकरणं सुतकरणं णोसुताभिधाणं च । सुतकरणं दुविकप्पं लोइय लोउत्तरं चैव ॥ ४०८० ॥
१ किंतु हे त । किन्छुग्धं आव० चू० मु० पृ० ५९९ । २ णंत हे जी ३ त्र को, ति है त ।
1