________________
७९६ विवाभाष्ये
[नि० ७२४यदि तत् पेलुकरणमर्थात्मकं भावार्थशून्यं न भवति शब्दा[ल्म]कं वा पेलुकरणं तदर्थशून्यं न भवति ततो द्रव्यकरणमिति किमुच्यते ननु भावकरणमित्युदाहर्त्तव्यम् ! उच्यते, रूढितः-यस्मात् तेन द्रव्यं पेल्वादिकं क्रियते तस्मात् तत् द्रव्यकरणत्वेऽपि संज्ञाकरणमित्युच्यते, करणशब्दरूढिता न संज्ञामात्रेण, संज्ञा च सा करणं च तदिति कर्मधारयः समास आश्रीयते ॥४०३१-३२॥
णोसण्णाकरणं पुण दव्वस्सारूढकरणसणं पि। तक्किरियाभावातो पयोगतो वीससातो य ॥४०३३॥
णोसण्णाकरणं पुण इत्यादि । एतद्विपर्ययेण द्रब्यकरणव्यापारादरूढकरणशब्दमपि तदर्थकारित्वात् द्रव्याधिकरणशक्तिसम्बन्धाद् नोसंज्ञाकरणं द्रव्यकरणम्तञ्च द्वेधा-प्रयोगतः विनसातश्चेति ॥४०३३॥
तत्र विनस्य(सा)करणम् - सादियमणातियं वा अजीवदव्वाण वीससाकरणं । धम्माऽधम्म-णभाणं अणादि संघादणाकरणं ॥४०३४॥ ___ सादियमणातियं वा । स्फुटार्था ॥४०३४॥ णणु करणमणादीयं च विरुद्धं भण्णते ण दोसोऽयं । अण्णोण्णसमाधाणं जमिधं करणं ण णिवत्ती ॥४०३५॥
णणु करणमणादीयं चेत्यादि । 'डुकृञ् करणे' अपूर्वप्रादुर्भाव वर्तते। तत् 'करणं च अनादि च' इति विरुद्धं तत् । प्रतिविधीयते, नायं दोषः, यतो नावश्यं करणमपूर्वप्रादुर्भाव एव, किं तर्हि ! अन्योन्यसमाधानेऽपि करणशब्दो वर्तते एव, न निवृत्तावेवेत्यर्थः ॥४०३५॥
अधव परपच्चयातो संजोगादिकरणं णभादोणं । सातियमुवयारातो पज्जायादेसदो आवि ॥४०३६॥
अधव परपच्चयातो इत्यादि । अथवा परवस्तुप्रत्ययाद् आकाशादीनां योग्यताकरणमाद्यमुपचारात् तत्पर्यायादेशाद्वा सादित्वम् । सर्व एव पर्यायमयमा(मयः सा)दिरिति, प्रतिक्षणध्वंसिल्वात् ॥४०३६॥
एवं तावद् अरूपिद्रव्यविषयमाधमनाचं च विस्रसाकरणं स्वाभाविकमुक्तम् । अथ रूपिद्रव्यविषयं विनसाकरणम् -
चक्खुसमचक्खुस पि य सातीयं रूवि वीससाकरणं । . अब्भाऽणुप्पभितीणं बहुधा संघातभेतकत ॥४०३७॥